विसर्ग सन्धि सूत्र कोष्टक (संस्कृत सूत्र, स्पष्टीकरण, विश्लेषण आणि श्रीमद् भगवद् गीतेतील उदाहरण)
{१} विसर्जनीयस्य सः। (८.३.३४) = पदस्य विसर्जनीयस्य खरि सः । = पदान्ते विद्यमानस्य विसर्गस्य संहितायाम् खर्-वर्णे परे सकारादेशः भवति । खर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । आहत्य १३ वर्णाः । अष्टाध्याय्याम् विसर्जनीयस्य सः (८.३.३४) इत्यतः कस्कादिषु च (८.३.४८) इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् प्रथमम् सूत्रम् । खर्-प्रत्याहारस्य वर्णे परे विसर्गस्य सकारादेशः भवति — इति अस्य सूत्रस्य अर्थः । बाध्यबाधकभावः च्/छ्/ट्/ठ्/त्/थ्-वर्णान् विहाय अन्येषु खर्-वर्णेषु परेषु प्रकृतसूत्रस्य प्रयोगः न भवति । ककारे / खकारे परे विसर्गस्य प्रकृतसूत्रेण सकारादेशे प्राप्ते; तद्बाधित्वा कुप्वोः ≍क≍पौ च (८.३.३७) इत्यनेन विकल्पेन जिह्वामूलीयः विधीयते ; पक्षे विसर्गस्य विसर्गादेशः एव भवति । यथा, रामः करोति → रामःकरोति, राम≍करोति । पकारे / फकारे परे विसर्गस्य प्रकृतसूत्रेण सकारादेशे प्राप्ते; तद्बाधित्वा कुप्वोः ≍क≍पौ च (८.३.३७) इत्यनेन विकल्पेन उपध्मानीयः विधीयते । पक्षे विसर्गस्य विसर्गादेशः एव भवति । यथा, रामः पश्यति → रामःपश्यति, राम≍पश्यति । सकारे / शकारे / षकारे परे विसर्गस्य प्रकृतसूत्रेण नित्यं सकारादेशे प्राप्ते, वा शरि (८.३.३६) इति सः विकल्प्यते । यथा, रामः सहते → रामःसहते, रामस्सहते । खर्-वर्णात् अनन्तरम् यत्र शकारः / षकारः / सकारः अव्यवहितरूपेण विद्यते, तत्र अपि प्रकृतसूत्रेण प्राप्तं सकारादेशं बाधित्वा शर्परे विसर्जनीयः (८.३.३५) इत्यनेन विसर्गस्य पुनः विसर्गादेशः एव भवति । यथा – कः त्सरुः → कःत्सरुः । अत्र तकारात् परः सकारः वर्तते, अतः विसर्गस्य तकारे परे अपि सकारादेशः न भवति । (खड्गस्य मुष्टिः त्सरुः नाम्ना ज्ञायते । The handle of a sword is called त्सरु.) A विसर्ग occurring at end of a पद is converted to a सकार when followed by a letter from the खर् प्रत्याहार. संस्कृत व्याकरणामध्ये ‘विसर्जनीयस्य सः‘ (८.३.३४) हे विसर्ग संधीमधील सर्वात मूळ आणि पायाभूत सूत्र आहे. विसर्गाचा (ः) ‘स्‘ कसा आणि केव्हा होतो, याचा अतिशय स्पष्ट नियम या सूत्रात सांगितला आहे. पदच्छेद: विसर्जनीयस्य + सः । (या सूत्रात मागील सूत्रातून ‘खरि‘ या शब्दाची अनुवृत्ती येते). शब्दांचे अर्थ: विसर्जनीयस्य = विसर्गाच्या (ः) जागी. सः = ‘स्‘ (सकार) हा आदेश होतो. खरि (अनुवृत्ती) = ‘खर्‘ प्रत्याहारातील वर्ण पुढे आल्यास (म्हणजेच प्रत्येक वर्गाचे पहिले आणि दुसरे अक्षर: क, ख, च, छ, ट, ठ, त, थ, प, फ आणि श, ष, स). नियम सोप्या भाषेत: जर विसर्गाच्या (ः) अगदी पुढे ‘खर्‘ (कठोर वर्ण) आला, तर त्या विसर्गाच्या जागी ‘स्‘ हा वर्ण येतो. संधीची साखळी (Chain Reaction): जरी नियम विसर्गाचा ‘स्‘ होतो असे सांगत असला, तरी पुढील अक्षराच्या उच्चारानुसार त्या ‘स्‘ मध्येही बदल (श्चुत्व/ष्टुत्व संधी) होतात: विसर्ग + त/थ = थेट स्त / स्थ होतो. (उदा. नमः + ते = नमस्ते). विसर्ग + च/छ = आधी ‘स्‘ होतो व ‘च/छ‘ च्या संपर्कामुळे ‘स्‘ चा ‘श्‘ होतो. म्हणजेच श्च / श्छ तयार होतो. (उदा. बालः + चरति = बालश्चरति). विसर्ग + ट/ठ = आधी ‘स्‘ होतो व ‘ट/ठ‘ मुळे त्याचा ‘ष्‘ होतो. म्हणजेच ष्ट / ष्ठ तयार होतो. नमस्ते : (अध्याय ११, श्लोक ३९) नमो नमस्तेऽस्तु सहस्रकृत्वः… फोड: नमः + ते = नमस्ते । विश्लेषण: ‘नमः‘ च्या शेवटी विसर्ग (ः) आहे व पुढे ‘ते‘ मधील ‘त‘ (खर्) आला आहे. त्यामुळे विसर्गाचा ‘स्‘ होऊन ‘नमस्ते‘ हा शब्द तयार झाला. ततस्ततः : (अध्याय ६, श्लोक २६) ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् । फोड: ततः + ततः = ततस्ततः । विश्लेषण: पहिल्या ‘ततः‘ च्या विसर्गापुढे ‘त‘ आल्याने विसर्गाचा ‘स्‘ झाला. शङ्खाश्च : (अध्याय १, श्लोक १३) ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । फोड: शङ्खाः + च = शङ्खाश्च । विश्लेषण: ‘शङ्खाः‘ च्या विसर्गापुढे ‘च‘ आला. नियमानुसार आधी विसर्गाचा ‘स्‘ झाला (शङ्खास्+च) आणि नंतर स्तुत्व नियमाने ‘स्‘ चा ‘श्‘ होऊन ‘शङ्खाश्च‘ तयार झाले. मनश्चञ्चलम् : (अध्याय ६, श्लोक २६) …मनश्चञ्चलमस्थिरम् । फोड: मनः + चञ्चलम् = मनश्चञ्चलम् । विश्लेषण: येथेही विसर्गाचा आधी ‘स्‘ आणि नंतर ‘च‘ मुळे ‘श्‘ असा बदल झाला. विसर्गाच्या बदलाची साखळी (The Visarga Transformation): अनेकदा प्रश्न पडतो की सूत्राचे नाव ‘विसर्जनीयस्य सः‘ आहे, मग ‘शङ्खाश्च‘ मध्ये ‘श्‘ कुठून आला? याचे उत्तर म्हणजे व्याकरणातील ‘साखळी प्रक्रिया‘ (Chain Reaction). विसर्ग नेहमी आधी ‘स्‘ च बनतो, पण तो कुणाच्या शेजारी बसला आहे यावरून तो आपला वेष (श् किंवा ष्) बदलतो. |
{२} शर्परे विसर्जनीयः । (८.३.३५) = शर्-परे खरि विसर्जनीयस्य विसर्जनीयः । पदान्ते विद्यमानात् विसर्गात् अनन्तरम् खर्-वर्णः, तस्मात् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य विसर्गादेशः भवति । खर् = सर्वाणि कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शकारः, षकारः, सकारः । आहत्य १३ वर्णाः । शर् = शकारः, षकारः, सकारः । आहत्य ३ वर्णाः । अष्टाध्याय्याम् विसर्जनीयस्य सः (८.३.३४) इत्यतः कस्कादिषु च (८.३.४८) इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् द्वितीयम् सूत्रम् । विसर्गात् अनन्तरम् खर्-वर्णः, तस्माद् अनन्तरम् च शर्-वर्णः विद्यते चेत् विसर्गस्य अन्यान् आदेशान् बाधित्वा पुनः विसर्गादेशः एव भवति — इति अस्य सूत्रस्य आशयः । १. कः त्सरुः → कः त्सरुः । अत्र तकारात् परः अव्यवहितरूपेण सकारः वर्तते, अतः तकारात् पूर्वस्य विसर्गस्य विसर्जनीयस्य सः ८.३.३४ इत्यनेन सकारादेशे प्राप्ते तं बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति । २. रामः क्षत्रियः → रामः क्षत्रियः । अत्र ककारात् परः अव्यवहितरूपेण षकारः विद्यते, अतः ककारात् पूर्वस्य विसर्गस्य कुप्वोः ≍क≍पौ च ८.३.३७ इत्यनेन पाक्षिके जिह्वामूलीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति । ३. अद्भिः प्सातम् → अद्भिः प्सातम् । अत्र पकारात् परः अव्यवहितरूपेण सकारः विद्यते, अतः पकारात् पूर्वस्य विसर्गस्य कुप्वोः ≍क≍पौ च ८.३.३७ इत्यनेन पाक्षिके उपध्मानीये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण विसर्गस्य विसर्गादेशः एव भवति । बाध्यबाधकभावः शर्परे विसर्जनीयः ८.३.३५ इति प्रकृतसूत्रम् विसर्जनीयस्य सः ८.३.३४ तथा च कुप्वोः ≍क≍पौ च ८.३.३७ इत्यनयोः बाधकरूपेण प्रवर्तते । विसर्जनीयस्य सः ८.३.३४ इत्यनेन प्राप्तं सकारादेशम्, तथा च कुप्वोः ≍क≍पौ च ८.३.३७ इत्यनेन प्राप्तौ जिह्वामूलीय-उपध्मानीयौ बाधित्वा अनेन सूत्रेण विसर्गस्य विसर्गादेशः एव भवति । शर्परे खरि विसर्गस्य अन्यः कोऽपि आदेशः न भवेत् अपितु विसर्गः एव तत्र तिष्ठेत् — इति ज्ञापयितुम् एव विसर्गस्य पुनः विसर्गादेशः उक्तः अस्ति — इति अस्य आशयः । A विसर्ग is converted to विसर्ग if it is followed by a खर् letter after which a शर् letter is present. हे सूत्र विसर्ग कधी बदलत नाही (म्हणजेच विसर्ग तसाच राहतो), याचे नियम सांगते. अर्थ: जर विसर्गाच्या पुढे असा ‘खर‘ वर्ण (क, ख, च, छ, ट, ठ, त, थ, प, फ) आला असेल, ज्याच्या लगेच नंतर ‘शर्‘ वर्ण (श, ष, स) असेल, तर विसर्गाचा बदल न होता तो विसर्गच राहतो. विश्लेषण: १. विसर्ग + [खर वर्ण + शर् वर्ण]. २. सामान्यतः विसर्गाचा ‘स‘ होतो, पण या विशिष्ट स्थितीत तो होत नाही. सूत्राचे अधिक सविस्तर स्पष्टीकरण: पाणिनीच्या व्याकरणात वर्णांचे गट (प्रत्याहार) खूप महत्त्वाचे आहेत: खर (Khar): वर्गाचे पहिले आणि दुसरे अक्षर (उदा. क्, ख्, च्, छ्…) आणि श, ष, स. शर् (Shar): श, ष, स. नियम: जर विसर्गासमोर असा एखादा वर्ण आला जो ‘खर‘ आहे, पण त्याच्या डोक्यावर किंवा पाठीमागे लगेच ‘श‘ ‘ष‘ किंवा ‘स‘ जोडलेला असेल, तर संधी करताना विसर्गाचा लोप किंवा बदल होत नाही. श्रीमद् भगवद् गीतेमध्ये आणि उपनिषदांमध्ये असे प्रयोग आढळतात जिथे विसर्ग उच्चार स्पष्ट ठेवण्यासाठी हा नियम वापरला जातो. उदाहरणार्थ, अनेक ठिकाणी ‘पुनः पुनः‘ किंवा ‘दुःख‘ यांसारख्या शब्दांमध्ये विसर्ग कायम ठेवला जातो. १. कः त्सरुः (येथे ‘त्‘ खर आहे आणि ‘स्‘ शर् आहे, म्हणून विसर्ग कायम राहिला). २. यः त्सरुः. ३. दुःख (द + उ + ः + ख् + अ) – येथे ‘ख‘ नंतर कोणताही वर्ण नसला तरी परंपरेने विसर्ग जपला जातो. |
{३} वा शरि । (८.३.३६) = विसर्जनीयस्य शरि वा विसर्जनीयः । शर्-वर्णे परे विसर्गस्य विकल्पेन विसर्गादेशः एव भवति । शर् = शकारः, षकारः, सकारः । आहत्य ३ वर्णाः । अष्टाध्याय्याम् विसर्जनीयस्य सः ८.३.३४ इत्यतः कस्कादिषु च ८.३.४८ इति यावद्भिः पञ्चदशभिः सूत्रैः विसर्गस्य भिन्नाः आदेशाः प्रोक्ताः सन्ति । अस्य विसर्गादेशप्रकरणस्य इदम् तृतीयम् सूत्रम् । विसर्गात् अनन्तरम् शर्-वर्णः विद्यते चेत् विसर्गस्य विकल्पेन विसर्गादेशः एव भवति — इति प्रकृतसूत्रस्य आशयः । विकल्पाभावे विसर्गस्य सकारादेशः अपि भवति । १. हरिः सेवते → हरिःसेवते, हरिस्सेवते । अत्र विसर्गस्य विसर्जनीयस्य सः ८.३.३४ इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा वा शरि ८.३.३६ इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे विसर्जनीयस्य सः ८.३.३४ इत्यनेन अवश्यं सकारः भवति, अतः अत्र रूपद्वयं सिद्ध्यति । २. हरिः शेते → हरिःशेते, हरिश्शेते । अत्र विसर्गस्य विसर्जनीयस्य सः ८.३.३४ इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा वा शरि ८.३.३६ इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे विसर्जनीयस्य सः ८.३.३४ इत्यनेन अवश्यं सकारः, ततश्च तस्य स्तोः श्चुना श्चुः ८.४.४० इति श्चुत्वे शकारः विधीयते । एतादृशम् अत्र रूपद्वयं सिद्ध्यति । ३. हरिः षष्ठः → हरिःषष्ठः, हरिष्षष्ठः । अत्र विसर्गस्य विसर्जनीयस्य सः ८.३.३४ इत्यनेन सकारादेशे प्राप्ते; तद्बाधित्वा वा शरि ८.३.३६ इत्यनेन विकल्पेन विसर्गस्य विसर्गादेशः एव विधीयते । पक्षे विसर्जनीयस्य सः ८.३.३४ इत्यनेन अवश्यं सकारः, ततश्च तस्य ष्टुना ष्टुः ८.४.४१ इति ष्टुत्वे षकारः विधीयते । एतादृशम् अत्र रूपद्वयं सिद्ध्यति । वार्त्तिकद्वयम्: |
{४} कुप्वोः ≍क≍पौ च । (८.३.३७) = विसर्जनीयस्य कुप्वोः ≍क≍पौ विसर्जनीयः च । = विसर्गस्य ककारे/खकारे परे जिह्वामूलीयः विसर्गः वा भवतः । विसर्गस्य पकारे/फकारे परे उपध्मानीयः विसर्गः वा भवतः । विसर्जनीयस्य सः ८.३.३४ इत्यनेन विसर्गस्य खरि परे सकारे प्राप्ते वर्तमानसूत्रेण तस्य अपवादत्वेन कवर्गे पवर्गे च परे (क्रमेण) जिह्वामूलीय-उपध्मानीयौ उच्येते । एतौ आदेशौ विकल्पेनैव भवतः, अतः विकल्पाभावे विसर्गः एव तिष्ठति । १) विसर्गात् परः ककारः – रामः कः → रामःकः, राम≍कः [कुप्वोः ≍क≍पौ च ८.३.३७ इति विसर्गस्य विकल्पेन जिह्वामूलीयः] |
{५} सोऽपदादौ । (८.३.३८) = अपदादौ कुप्वोः पदस्य विसर्जनीयस्य सः । = पदान्ते विद्यमानस्य विसर्गस्य ‘पाश-कल्प-क-काम्य‘ एतेषु प्रत्ययेषु परेषु सकारादेशः भवति । विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् कुप्वोः ≍क≍पौ च ८.३.३७ इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । वर्तमानसूत्रेण अस्य अपवादः उच्यते – यदि विसर्गात् परः पाश-कल्प-क-काम्य एते शब्दाः आगच्छति, तर्हि विसर्गस्य सकारादेशः एव भवति । अस्मिन् सूत्रे ‘अपदादौ‘ इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः ‘अपदादौ कुप्वोः‘ अस्य अर्थः – सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् वार्त्तिकेन दीयते – पाश-कल्प-क-काम्येष्विति वाच्यम् । इत्युक्ते, यदि सः ‘अन्यः शब्दः‘ पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् सकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति – पदानि न – इति स्मर्तव्यम्) । A पदान्त विसर्ग is converted to a सकार when it is followed by the प्रत्ययाः पाश्य, कल्प, क, काम्य. हे सूत्र मागील सूत्राचा (कुप्वोः ≍क≍पौ च) एक महत्त्वाचा अपवाद (Exception) आणि विस्तार आहे. या सूत्रात ‘सः‘ याचा अर्थ ‘तो‘ (Pronoun) नसून ‘स्‘ (सकार) असा आहे. अर्थ: सूत्राची फोड ‘सः + अपदादौ‘ अशी होते. ‘सः‘ म्हणजे ‘स्‘ (सकार) आणि ‘अपदादौ‘ म्हणजे पदाच्या (स्वतंत्र शब्दाच्या) सुरुवातीला नसताना. जेव्हा विसर्गाच्या (ः) पुढे ‘क‘ किंवा ‘प‘ वर्गातील वर्ण येतो, आणि तो वर्ण एखाद्या स्वतंत्र शब्दाची सुरुवात नसून एखाद्या प्रत्ययाची (Suffix) सुरुवात असतो, तेव्हा विसर्गाचा हमखास ‘स्‘ होतो. विश्लेषण: मागील सूत्रात (८.३.३७) आपण पाहिले की विसर्गापुढे ‘क/प‘ आल्यास विसर्ग तसाच ठेवण्याचा विकल्प असतो (उदा. रामः पश्यति). पण तो नियम तेव्हाच लागतो जेव्हा पुढील ‘क/प‘ हा स्वतंत्र शब्द (पद) असतो. जर पुढील भाग ‘पाश, कल्प, क, काम्य‘ यांसारखा एखादा व्याकरणातील प्रत्यय असेल (जो स्वतंत्र शब्द नाही), तर तिथे विसर्गाचा नेहमी ‘स्‘ होतो. तिथे विसर्ग तसाच ठेवण्याचा कोणताही विकल्प नसतो. स्वतंत्र शब्द आणि प्रत्यय यातील फरक: हा नियम समजण्यासाठी ‘स्वतंत्र शब्द‘ (Pada) आणि ‘प्रत्यय‘ (Suffix) यातील फरक समजणे आवश्यक आहे: यशः + कामः = यशः कामः (येथे ‘कामः‘ हा स्वतंत्र शब्द आहे, त्यामुळे ८.३.३७ नुसार विसर्ग तसाच राहतो.) यशः + काम्यति = यशस्काम्यति (येथे ‘काम्य‘ हा शब्दाला लागणारा प्रत्यय आहे, तो स्वतंत्र शब्द नाही. त्यामुळे ‘सोऽपदादौ‘ नुसार विसर्गाचा ‘स्‘ होतो.). श्रीमद् भगवद् गीतेमध्ये या विशिष्ट तांत्रिक नियमाची (प्रत्यय लागल्याची) उदाहरणे सहसा आढळत नाहीत. परंतु संस्कृत व्याकरणात याची पुढील उदाहरणे अतिशय प्रसिद्ध आहेत: १. यशः + कल्पम् = यशस्कल्पम् (येथे ‘कल्प‘ हा प्रत्यय आहे, शब्द नाही, म्हणून विसर्गाचा ‘स्‘ झाला). २. पयः + पाशम् = पयस्पाशम् (खराब दूध – ‘पाश‘ प्रत्यय). ३. यशः + काम्यति = यशस्काम्यति (यशाची इच्छा करतो – ‘काम्य‘ प्रत्यय). |
{६} इणः षः । (८.३.३९) = इणः विसर्जनीयस्य अपदादौ कुप्वोः षकारः । इण्-वर्णात् परस्य विसर्गस्य पाश-कल्प-क-काम्येषु परेषु षकारः भवति । विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् कुप्वोः ≍क≍पौ च ८.३.३७ इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । परन्तु यदि तस्मात् विसर्गात् परः पाश्य-कल्प-क-काम्य एतेषु कश्चन शब्दः आगच्छति, तर्हि सोऽपदादौ ८.३.३८ इत्यनेन विसर्गस्य सकारादेशः विधीयते । यदि एतादृशः विसर्गः इण्-वर्णात् अनन्तरमागच्छति, तर्हि वर्तमानसूत्रेण सकारस्यापि अपवादरूपेण विसर्गस्य षकारादेशः क्रियते । अस्मिन् सूत्रे ‘अपदादौ‘ इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः ‘अपदादौ कुप्वोः‘ अस्य अर्थः – सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् सोऽपदादौ ८.३.३८ अस्मिन् सूत्रे स्थितेन वार्त्तिकेन दीयते – पाश-कल्प-क-काम्येष्विति वाच्यम् । इत्युक्ते, यदि सः ‘अन्यः शब्दः‘ पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् षकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति – पदानि न – इति स्मर्तव्यम्) । A पदान्त विसर्ग which comes after a letter from the इण् प्रत्याहार, and which is followed by प्रत्ययाः – पाश्य, कल्प, क, काम्य – is converted to a षकार. ‘इणः षः‘ (८.३.३९) हे पाणिनीच्या अष्टाध्यायीतील विसर्ग संधीचे सूत्र मागील ‘सोऽपदादौ‘ (८.३.३८) या सूत्राचाच पुढचा भाग आहे. जिथे ‘अ‘ किंवा ‘आ‘ नंतर विसर्ग आल्यास त्याचा ‘स्‘ होतो, तिथेच जर ‘अ/आ‘ सोडून इतर स्वर आले तर काय होते, हे या सूत्रात सांगितले आहे. अर्थ: सूत्राची फोड ‘इणः + षः‘ अशी होते. यात मागील सूत्रांमधील ‘अपदादौ‘ (प्रत्यय) आणि ‘कुप्वोः‘ (क/प वर्ग) हे शब्द अनुवृत्तीने (Reference ने) येतात. नियम: जेव्हा विसर्गाच्या आधी ‘इण्‘ प्रत्याहारातील वर्ण (म्हणजेच ‘अ‘ आणि ‘आ‘ सोडून इतर सर्व स्वर – उदा. इ, उ) येतात आणि विसर्गाच्या पुढे ‘क‘ किंवा ‘प‘ वर्गातील वर्ण येतो जो स्वतंत्र शब्द नसून प्रत्यय (Suffix) असतो, तेव्हा विसर्गाचा ‘स्‘ न होता ‘ष्‘ (षकार) होतो. तुलनात्मक अभ्यास: ८.३.३८ विरुद्ध ८.३.३९ = हे सूत्र पूर्णपणे समजण्यासाठी त्याची तुलना मागील सूत्राशी करणे आवश्यक आहे: सोऽपदादौ (८.३.३८): [अ/आ] + विसर्ग + [क/प प्रत्यय] = स् (उदा. यशः + कल्पम् = यशस्कल्पम्). इणः षः (८.३.३९): [इ/उ/इतर स्वर] + विसर्ग + [क/प प्रत्यय] = ष् (उदा. धनुः + कल्पम् = धनुष्कल्पम्). थोडक्यात, विसर्गाच्या आधी कोणता स्वर आहे, यावर ठरते की विसर्गाचा ‘स्‘ होणार की ‘ष्‘. गीतेमध्ये प्रत्यय लागलेली अशी तांत्रिक उदाहरणे क्वचितच आढळतात, पण संस्कृत व्याकरणात याची खालील उदाहरणे अतिशय प्रसिद्ध आहेत: १. सर्पिः + पाशम् = सर्पिष्पाशम् (येथे विसर्गाआधी ‘इ‘ आहे आणि पुढे ‘पाश‘ हा प्रत्यय आहे, म्हणून ‘ष्‘ झाला). २. धनुः + कपालम् = धनुष्कपालम् (येथे विसर्गाआधी ‘उ‘ आहे). ३. चतुः + कपालः = चतुष्कपालः (चार तुकडे असलेला). |
{७} नमस्पुरसोर्गत्योः । (८.३.४०) = गत्योः नमस्-पुरसोः विसर्जनीयस्य कुप्वोः सः । गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे वा परे सकारादेशः भवति । नमस् , तथा पुरस् – एतौ द्वौ अव्ययौ । नमस्-शब्दः ‘साक्षात्‘ नाम्नि गणे समाविश्यते, अतः कृ-धातोः रूपेषु परेषु अस्य शब्दस्य साक्षात्प्रभृतीनि च १.४.७४ इत्यनेन विकल्पेन गतिसंज्ञा भवति । ‘पुरस्‘ अव्ययस्य पुरोऽव्ययम् १.४.६७ इत्यनेन तु नित्यम् गतिसंज्ञा भवति । एतयोः द्वयोः गतिसंज्ञकयोः शब्दयोः सकारस्य विसर्गे कृते तस्मात् विसर्गात् परः यदि कवर्गस्य पवर्गस्य वा वर्णः आगच्छति, तर्हि तस्य कुप्वोः ≍क ≍पौ च ८.३.३७ इत्यस्य अपवादरूपेण अस्य विसर्गस्य सकारादेशः भवति । The विसर्ग of गतिसंज्ञक नमस् and पुरस् words is converted to सकार when followed by कवर्ग letter or a पवर्ग letter. आपण आधी पाहिलेल्या नियमांचा (विशेषतः ८.३.३७ चा) हा एक विशिष्ट अपवाद (Exception) आहे. हे सूत्र ‘नमः‘ (नमस्कार) आणि ‘पुरः‘ (पुढे) या दोन शब्दांबद्दल विशेष नियम सांगते. अर्थ: ‘नमस्‘ (नमः) आणि ‘पुरस्‘ (पुरः) हे शब्द जेव्हा ‘गती‘ (Gati) संज्ञक असतात (म्हणजेच एखाद्या धातूच्या, विशेषतः ‘कृ‘ धातूच्या पूर्वी उपसर्ग/क्रियाविशेषणासारखे येतात), तेव्हा त्यांच्या पुढील क/प वर्गातील वर्ण आल्यास विसर्गाचा हमखास ‘स्‘ (सकार) होतो. विश्लेषण: आपण ८.३.३७ (कुप्वोः ≍क≍पौ च) मध्ये पाहिले की विसर्गापुढे ‘क‘ आल्यास विसर्ग तसाच राहतो (उदा. बालः + करोति = बालः करोति). पण ‘नमः‘ आणि ‘पुरः‘ जेव्हा ‘करोति‘, ‘कारः‘, ‘कृत्वा‘ अशा ‘कृ‘ (करणे) धातूच्या रूपांसोबत जोडले जातात, तेव्हा त्यांना व्याकरणात ‘गती‘ (Gati) मानले जाते. या विशेष दर्जामुळे, ८.३.३७ चा नियम रद्द होतो आणि विसर्गाचा नेहमी ‘स्‘ होतो. गती संज्ञा (Gati) म्हणजे काय? पाणिनीय व्याकरणात ‘गती‘ ही एक तांत्रिक संज्ञा आहे. जेव्हा काही विशिष्ट अव्यये (येथे नमः आणि पुरः) क्रियापदाला जोडून येतात आणि त्याच्या अर्थाला एक नवीन दिशा देतात, तेव्हा त्यांना ‘गती‘ म्हटले जाते. जर हे शब्द ‘गती‘ नसतील (म्हणजेच ते क्रियापदाशी थेट जोडलेले नसतील), तर मात्र विसर्गाचा ‘स्‘ होत नाही. अशाप्रकारे अष्टाध्यायीमध्ये ‘सामान्य नियम‘ आणि त्याचे ‘विशेष अपवाद‘ यांची अतिशय सुंदर साखळी पाहायला मिळते. १. नमस्कृत्वा (गीता ११.१४ आणि ११.३१) नमः + कृत्वा = नमस्कृत्वा (येथे ‘नमः‘ ची गती संज्ञा आहे आणि पुढे कृ धातूचे रूप आहे, म्हणून ‘स्‘ झाला).२. नमस्कारः = नमः + कारः = नमस्कारः ३. पुरस्करोति (व्याकरणातील प्रसिद्ध उदाहरण) = पुरः + करोति = पुरस्करोति (पुढे करतो/प्राधान्य देतो). |
{८} इदुदुपधस्य चाप्रत्ययस्य । (८.३.४१) = इदुदुपधस्य चाप्रत्ययस्य । इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति । ह्रस्व-इकारात् / ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति – इति अस्य सूत्रस्य आशयः । |
{९} तिरसोऽन्यतरस्याम् । (८.३.४२) = तिरसः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः । तिरस्-शब्दस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन सकारादेशः भवति । ‘तिरस्‘ इति शब्दः स्वरादिगणे निर्दिष्टः अस्ति । अतः स्वरादिनिपातमव्ययम् १.१.३७ इत्यनेन अव्ययत्वे, ततश्च पदत्वे प्राप्ते अस्य सकारस्य खरि परे रुँत्वविसर्गः भवति । अस्य विसर्गस्य कुप्वोः ≍क ≍पौ च ८.३.३७ इत्यनेन कवर्गे पवर्गे परे विकल्पेन जिह्वामूलीय-उपध्मानीयौ प्राप्ते तिरस्-शब्दस्य विषये विकल्पेन सकारादेशः अपि विधीयते । यथा – १. तिरस् + करोति → तिरः करोति → तिर≍करोति, तिरःकरोति, तिरस्करोति । २. तिरस् + पतति → तिरः पतति → तिर≍पतति, तिरःपतति, तिरस्पतति । The विसर्ग of the word तिरस् is optionally converted to सकार in presence of कवर्ग / पवर्ग letter. हे सूत्र विसर्ग संधीमधील ‘गति‘ संज्ञक शब्दांच्या बाबतीत विशेष नियम सांगते. हे सूत्र मागील सूत्राचा (इदुदुपधस्य…) अपवाद किंवा विस्तार म्हणून कार्य करते. या सूत्राचे वैशिष्ट्य असे आहे की, यात ‘अन्यतरस्याम्‘ हा शब्द वापरला आहे, ज्याचा अर्थ ‘पर्यायाने‘ (Optionally) असा होतो. नियम: ‘तिरस्‘ या शब्दाच्या विसर्गापुढे जर क्, ख्, प्, फ् (कु-पु) यांपैकी एखादा वर्ण आला, तर विसर्गाचा ‘स्‘ होणे हे ऐच्छिक असते. तिरस् + कृ (धातू) – जेव्हा ‘तिरस्‘ हा शब्द ‘कृ‘ धातूच्या रूपांशी जोडला जातो, तेव्हा संधी होताना दोन रूपे मिळतात: १) सकारयुक्त (तिरस्कार) २) विसर्गयुक्त (तिरःकार). तिरस्कृत्वा / तिरःकृत्या: संस्कृत साहित्यात ‘तिरस्कार‘ (अपमान) या अर्थाने हे रूप वापरले जाते. टीप: विशेष म्हणजे ‘तिरस्‘ हा शब्द त्याच्या मूळ अव्यय रूपात श्रीमद् भगवद् गीतेमध्ये थेट वापरलेला आढळत नाही. मात्र, यासारखेच नियम असणारे ‘नमस्‘ किंवा ‘पुरस्‘ (८.३.४०) या सूत्राचे संदर्भ मिळतात. नमस्कृत्य (नमः + कृत्य). उदा. एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्य… (अध्याय ११, ३५). ‘तिरस्‘ हा गती संज्ञक आहे. जेव्हा तो कु-पु वर्णांच्या समोर येतो, तेव्हा विसर्गाचे सकारात रूपांतर करणे हे कवीच्या इच्छेवर अवलंबून असते. तिरस्कृत / तिरःकृत: (तिरस् + कृत) दोन्ही रूपे व्याकरणदृष्ट्या शुद्ध मानली जातात. महत्त्वाची टीप: पाणिनी व्याकरणानुसार, ‘तिरस्‘ शब्दाचा प्रयोग गीतेत नसला तरी, ‘नमस्‘ (नमः) आणि ‘पुरस्‘ (पुरः) या शब्दांसाठी असेच नियम लागू होतात. गीतेमध्ये ‘नमस्कृत्य‘ (११.३५) आणि ‘नमस्कृत्वा‘ (११.४४) ही रूपे वारंवार येतात, जिथे विसर्गाचा ‘स्‘ झाला आहे. |
{१०} द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । (८.३.४३) = कृत्वः-अर्थे द्विस्-त्रिस्-चतुः इणः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् सः । ‘कृत्व‘ इत्यस्मिन् अर्थे प्रयुज्यमानानाम् द्विस्/त्रिस्/चतुर्-शब्दानाम् इण्-वर्णात् परस्य विसर्गस्य कवर्गे पवर्गे वा परे विकल्पेन षकारादेशः भवति । अस्य सूत्रस्य अर्थम् ज्ञातुम् सर्वप्रथमम् ‘कृत्व‘ इत्युक्ते किम् तत् पश्यामः । ‘कतिवारम्‘ अस्य प्रश्नस्य उत्तरार्थम् येषाम् शब्दानाम् प्रयोगः भवति, ते कृत्वर्थाः । यथा, सामान्यभाषायाम् यत् ‘द्विवारम्‘ / ‘त्रिवारम्‘ / ‘पञ्चवारम्‘ एतादृशाः शब्दाः प्रयुज्यन्ते, ते सर्वे कृत्वर्थे सन्ति । – द्वि + सुच् → द्विस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → द्विः । – त्रि + सुच् → त्रिस् → [सकारस्य रुत्वे, रेफस्य अवसाने खरि परे वा विसर्गे] → त्रिः । – चतुर् + सुच् → चतुर् स् → [रात्सस्य ८.२.२४ इत्यनेन सकारस्य लोपे कृते] चतुर् –→ [रेफस्य अवसाने खरि परे वा विसर्गे] → चतुः । एतादृशम् ‘द्विस् ‘, ‘त्रिस् ‘ तथा चतुर् एतानि प्रातिपदिकानि सिद्ध्यन्ति । इदानीमस्य सूत्रस्य अर्थज्ञानम् सरलरूपेण भवेत् । एतत् सूत्रम् द्विस्, त्रिस्, चतुर् – एतेषाम् शब्दानाम् विषये उक्तमस्ति । एतेषामन्तिमवर्णस्य यः विसर्गः भवति, तस्य कवर्गे पवर्गे परे कुप्वोः ≍क ≍पौ च ८.३.३७ इत्यनेन विकल्पेन जिह्वामूलीये/उपध्मानीये प्राप्ते वर्तमानसूत्रेण विकल्पेन षकारादेशः अपि भवति । यथा – द्विः + करोति → द्विष्करोति, द्विःकरोति, द्वि≍करोति । त्रिः + करोति → त्रिष्करोति, त्रिःकरोति, त्रि≍करोति । चतुः + करोति → चतुष्करोति, चतुःकरोति, चतु≍करोति । चतुर्-शब्दस्य विषये किञ्चित् अधिकम् ज्ञेयम् – अत्र प्रयुक्तः ‘चतुर्‘ शब्दः कृत्वर्थे अस्ति – सङ्ख्यार्थे न इति स्मर्तव्यम् । सङ्ख्यार्थे प्रयुज्यमानः चतुर्-शब्दः (यथा – चत्वारि फलानि – आदयः) भिन्नः, अत्र कृत्वर्थे प्रयुक्तः चतुर्-शब्दः (यथा – सः चतुः पठति) भिन्नः । सङ्ख्यार्थे यः चतुर्-शब्दः प्रयुज्यते, तस्य विसर्गस्य इदुदुपधस्य चाप्रत्ययस्य८.३.४१ इत्यनेन नित्यमेव षत्वं विधीयते । परन्तु कृत्वर्थे प्रयुज्यमानस्य चतुर्-शब्दस्य वर्तमानसूत्रेण विकल्पेन षत्वं विधीयते । For the words द्विस् (= twice), त्रिस् (= thrice), and चतुर् = (four times) which are used to indicate frequency and not as mere numerals, their विसर्ग when followed by a letter from कवर्ग or पवर्ग is optionally converted to ष्. हे सूत्र ‘इदुदुपधस्य चाप्रत्ययस्य‘ (८.३.४१) या सूत्राचा एक महत्त्वाचा अपवाद (Exception) किंवा विस्तार म्हणून काम करते. नियम: जेव्हा द्विः (दोनदा), त्रिः (तीनदा) आणि चतुः (चारदा) या शब्दांच्या पुढे क्, ख्, प्, फ् यांपैकी एखादा वर्ण येतो, तेव्हा त्यांच्या विसर्गाचा नेहमी ‘ष्‘ (षकार) होतो. कृृत्वोऽर्थे : अट: क्रियेची वारंवारता. विश्लेषण: ‘कृृत्वोऽर्थे‘ म्हणजे “किती वेळा” (Frequency/Repetition). जेव्हा हे शब्द क्रियेची आवृत्ती दर्शवतात (उदा. दोन वेळा करतो, तीन वेळा खातो), तेव्हाच हा नियम लागू होतो. १. द्विष्करोति (द्विः + करोति) = दोन वेळा करतो. २. त्रिष्पचति (त्रिः + पचति) = तीन वेळा शिजवतो. ३. चतुष्करोति (चतुः + करोति) = चार वेळा करतो. इदुदुपधस्य चाप्रत्ययस्य‘ (८.३.४१) या सूत्रानुसार विसर्ग हा ‘प्रत्ययाचा‘ भाग नसेल तरच त्याचा ‘ष‘ होतो. ‘द्विः‘, ‘त्रिः‘ मधील विसर्ग हा ‘सुच्‘ नावाच्या प्रत्ययाचा भाग आहे. त्यामुळे नियमानुसार इथे ‘ष‘ होऊ नये. परंतु पाणिनींनी हे विशेष सूत्र रचून प्रत्यय असूनही ‘ष‘ होण्याची परवानगी दिली. सामान्य अपवाद (जेथे वारंवारता नाही): जर ‘चतुः‘ शब्दाचा अर्थ वारंवारता नसेल, तर ‘ष‘ होत नाही किंवा संधी वेगळी होते. उदा. चतुः + कपालः = चतुष्कपालः (येथे इतर सूत्राने कार्य होते). टीप: श्रीमद् भगवद् गीतेमध्ये ‘द्विः‘, ‘त्रिः‘ किंवा ‘चतुः‘ हे शब्द ‘वारंवारता‘ (कृृत्वोऽर्थे) या अर्थाने येऊन त्यांच्यापुढे ‘क‘ किंवा ‘प‘ आला आहे, अशी थेट विसर्ग संधीची उदाहरणे उपलब्ध नाहीत. गीतेमध्ये ‘त्रि‘ आणि ‘चतुर्‘ हे शब्द संख्या म्हणून अनेकदा येतात, पण ते ‘कृृत्वोऽर्थे‘ (वारंवारता) या अर्थाने विसर्ग संधीत (ष्) गेलेले नाहीत. उदा. चतुर्विधम् (चतुर् + विधम् – येथे रफार होतो), त्रिविधम् (त्रि + विधम्). येथे संख्यावाचक प्रयोग आहे, आवृत्तीवाचक नाही. थोडक्यात सारांश: हे सूत्र व्याकरणातील एक अतिशय सूक्ष्म व्यवस्थापन आहे. ‘द्विः‘, ‘त्रिः‘ यांसारखे शब्द प्रत्ययाने बनलेले असले तरीही, जेव्हा ते “किती वेळा” (times) हा अर्थ व्यक्त करतात, तेव्हाच त्यांच्या विसर्गाचा ‘ष‘ होतो हे निश्चित करण्यासाठी पाणिनी महर्षींनी या स्वतंत्र सूत्राची रचना केली. गीतेत याचे थेट उदाहरण नसले तरी संस्कृत साहित्यात (उदा. द्विष्करोति) याचा नित्य वापर होतो. |
{११} इसुसोः सामर्थ्ये । (८.३.४४) = इसुसोः विसर्जनीयस्य कुप्वोः अन्यतरस्याम् षः सामर्थ्ये । इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये विकल्पेन षकारादेशः भवति । The विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is optionally converted to a षकार whenever the words involved in the सन्धि are associated with each other. या आधीच्या सूत्रांमध्ये आपण पाहिले की विसर्गाचा ‘ष्‘ कसा होतो, तसेच हे सूत्र ‘इस्‘ आणि ‘उस्‘ या विशिष्ट प्रत्ययांनी (affixes) संपणाऱ्या शब्दांसाठी नियम सांगते. नियम: ज्या शब्दांच्या शेवटी ‘इस्‘ किंवा ‘उस्‘ हा प्रत्यय आहे, त्यांच्या विसर्गापुढे जर क्, ख्, प्, फ् यांपैकी एखादा वर्ण आला, आणि त्या दोन शब्दांमध्ये ‘सामर्थ्य‘ (semantic or syntactic connection) असेल, तर त्या विसर्गाचा ‘ष्‘ (षकार) होतो. इसुसोः ‘इस्‘ आणि ‘उस्‘ प्रत्यय. विश्लेषण: संस्कृतमध्ये काही शब्द ‘इस्‘ आणि ‘उस्‘ या कृदन्त किंवा तद्धित प्रत्ययांनी बनलेले असतात. उदा. सर्पिस् (तूप), हविस् (यज्ञात अर्पण करण्याचे द्रव्य), यजुस् (यजुर्वेद), आयुस् (आयुष्य). या शब्दांच्या शेवटी असलेल्या विसर्गाचा या नियमानुसार ‘ष‘ होतो. १. सर्पिष्करोति (सर्पिः + करोति) = तूप तयार करतो. २. यजुष्करोति (यजुः + करोति). ३. आयुष्कामः (आयुः + कामः) = आयुष्याची इच्छा करणारा. सामर्थ्ये सर्वात महत्त्वाची अट – अर्थाचा संबंध. विश्लेषण: ‘सामर्थ्य‘ म्हणजे दोन शब्दांमधील परस्पर व्याकरणिक आणि अर्थपूर्ण संबंध (एकार्थीभाव किंवा व्यपेक्षा). जर दोन शब्दांचा एकमेकांशी काहीही संबंध नसेल (म्हणजे ते वेगवेगळ्या वाक्यांचे भाग असतील), तर हा नियम लागू होत नाही आणि ‘ष‘ होत नाही. जेव्हा सामर्थ्य नसते (अपवाद): उदा. तिष्ठतु सर्पिः, पिब त्वम् उदकम् । (तूप राहू दे, तू पाणी पी. येथे ‘सर्पिः‘ आणि ‘पिब‘ जवळ आले असले तरी त्यांचा एकमेकांशी संबंध नाही, त्यामुळे येथे ‘सर्पिष्पिब‘ असा संधी होत नाही. विसर्ग तसाच राहतो. श्रीमद् भगवद् गीतेमध्ये ‘आयुस्‘, ‘हविस्‘, ‘यजुस्‘ यांसारखे ‘इसुस्‘ प्रत्ययान्त शब्द आले आहेत. परंतु, त्यांच्या पुढे थेट क्/प् येऊन ‘सामर्थ्य‘ असणारी आणि विसर्गाचा ‘ष्‘ झालेली संधीयुक्त उदाहरणे गीतेत फारशी आढळत नाहीत. गीतेतील संबंधित (परंतु वेगळ्या संधीची) उदाहरणे: १. आयुःसत्त्वबलारोग्य… (अध्याय १७, श्लोक ८) – येथे ‘आयुः‘ पुढे ‘स‘ आल्याने नियम वेगळा लागतो. २. ऋक् साम यजुरेव च । (अध्याय ९, श्लोक १७) – ‘यजुः‘ पुढे ‘एव‘ (स्वर) आल्याने रफार (यजुरेव) झाला आहे. थोडक्यात सारांश: हे सूत्र स्पष्ट करते की, नुसता विसर्ग आणि पुढे ‘क्/प्‘ असणे पुरेसे नाही; तर त्या शब्दांमध्ये अर्थाचा घट्ट संबंध (सामर्थ्य) असणेही तेवढेच गरजेचे आहे. ‘आयुष्काम‘ किंवा ‘धनुष्पाणि‘ (धनुष्य हातात घेतलेला) यांसारखे संस्कृत साहित्यातील प्रसिद्ध शब्द याच सूत्राच्या आधारे सिद्ध होतात. महर्षी पाणिनींनी ‘सामर्थ्ये‘ हा शब्द वापरून भाषेतील अर्थाच्या प्राधान्याला व्याकरणात कसे गुंफले आहे, याचे हे उत्तम उदाहरण आहे. |
{१२ } नित्यं समासेऽनुत्तरपदस्थस्य । (८.३.४५) = समासे इसुसोः विसर्जनीयस्य कुप्वोः नित्यम् षः सामर्थ्ये, अनुत्तरपदस्थस्य । समासस्य विषये – इस्/उस्-प्रत्यययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये नित्यम् षकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् षकारादेशः निषिध्यते । इसुसोः सामर्थ्ये ८.३.४५ अनेन सूत्रेण इस्/उस्-प्रत्ययस्य विसर्गात् अनन्तरम् कवर्गस्य/पवर्गस्य वर्णे स्थिते ; सामर्थ्ये सति; सन्धिं कर्तुम् इच्छामश्चेत् ; विसर्गस्य विकल्पेन षत्वं विधीयते । अस्यैव अपवादद्वयम् वर्तमानसूत्रेण विधीयते – १) समस्तपदस्य निर्माणम् भवति, तर्हि तत् षत्वम् नित्यम् भवति । २) यदि समस्तपदस्य निर्माणे पूर्वपदमपि स्वयं कश्चन समासः अस्ति चेत नित्यम् निषिध्यते । While doing a समास, the विसर्ग of the इस्/उस्-प्रत्यय when followed by a letter from कवर्ग or पवर्ग is always converted to a षकार whenever the words involved in the समास are associated with each other. However, if the पूर्वपद of this समास is a समास on its own, then the षत्व is completely prohibited. हे सूत्र मागील ‘इसुसोः सामर्थ्ये‘ (८.३.४४) या सूत्राचाच पुढचा भाग आहे आणि समास (Compound words) प्रक्रियेतील विसर्गाचा एक अनिवार्य नियम स्पष्ट करते. नियम: ‘इस्‘ किंवा ‘उस्‘ प्रत्ययाने बनलेला शब्द जर एखाद्या समासात (Compound) असेल आणि त्याच्यापुढे क्, ख्, प्, फ् आला, तर त्याच्या विसर्गाचा नित्य (नेहमी/अनिवार्यपणे) ‘ष्‘ (षकार) होतो. अट एवढीच आहे की, तो ‘इस्/उस्‘ शब्द त्या समासात दुसरा शब्द (उत्तरपद) नसून पहिला शब्द (पूर्वपद) असावा. नित्यं समासे – समासात अनिवार्य संधी. मागील सूत्रात (८.३.४४) दोन वेगळ्या शब्दांत ‘सामर्थ्य‘ (अर्थाचा संबंध) असताना ‘ष्‘ होतो असे पाहिले. पण जेव्हा दोन शब्दांचा ‘समास‘ बनतो, तेव्हा हा ‘ष्‘ होणे नित्य (compulsory) असते. तिथे कोणताही पर्याय नसतो. सर्पिष्कुण्डिका (सर्पिस् + कुण्डिका). ‘सर्पिस्‘ (तूप) आणि ‘कुण्डिका‘ (भांडे) यांचा समास झाल्यावर ‘सर्पिःकुण्डिका‘ असे रूप राहत नाही, ‘ष्‘ अनिवार्य होतो. अनुत्तरपदस्थस्य – उत्तरपद नसण्याची अट. व्याकरणीय अपवाद: जर तो ‘इस्/उस्‘ शब्द अगोदरच तयार झालेल्या एखाद्या समासातील ‘दुसरा शब्द‘ (उत्तरपद) असेल, तर मात्र हा नियम लागू होत नाही. तेव्हा विसर्गाचा ‘ष्‘ होत नाही. शास्त्रीय उदाहरण: परमसर्पिः कुण्डिका (परमसर्पिस् + कुण्डिका). येथे ‘सर्पिस्‘ हा शब्द ‘परमसर्पिस्‘ या समासात ‘उत्तरपद‘ (दुसरा शब्द) आहे. त्यामुळे ‘कुण्डिका‘ जोडताना ‘ष्‘ झाला नाही, विसर्ग तसाच राहिला. टीप: हे सूत्र व्याकरणातील अत्यंत विशिष्ट (Niche) परिस्थितीसाठी आहे (इस्/उस् शब्द + पूर्वपद + समास + पुढे क/प). श्रीमद् भगवद् गीतेमध्ये या अत्यंत विशिष्ट व्याकरणीय अटीत बसणारा कोणताही सामासिक शब्द थेट उपलब्ध नाही. गीतेत ‘चक्षुस्‘, ‘हविस्‘, ‘यजुस्‘ हे शब्द आहेत, पण ते या समासाच्या अटीत येत नाहीत. उदा. दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् । (११.८) येथे ‘चक्षुः‘ आणि ‘पश्य‘ जवळ आहेत, पण तो समास नाही (ते वेगळे शब्द आहेत), म्हणून नियमानुसार तिथे ‘चक्षुष्पश्य‘ न होता विसर्गच राहिला आहे. थोडक्यात सारांश: पाणिनी महर्षींची व्याकरण व्यवस्था किती अचूक होती, हे या सूत्रावरून दिसते. ‘सर्पिष्कुण्डिका‘ (तुपाचे भांडे) यांसारख्या शब्दांमध्ये ‘ष‘ का येतो आणि ‘परमसर्पिः कुण्डिका‘ मध्ये का येत नाही, यामागील समासाच्या ‘पूर्वपद‘ आणि ‘उत्तरपद‘ असण्याचे गणित या सूत्राने अत्यंत स्पष्ट केले आहे. गीतेत याचे थेट उदाहरण नसले तरी, संस्कृत वाङ्मयातील सामासिक शब्दांची शुद्धता तपासण्यासाठी हे एक महत्त्वाचे सूत्र आहे. |
{१३} अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । (८.३.४६) = अतः अनव्ययस्य विसर्जनीयस्य समासे कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीषु सः, अनुत्तरपदस्थस्य । समासस्य विषये – अकारात् परस्य अव्ययभिन्नस्य विसर्गस्य कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी – एतेषु परेषु नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते । यदि कस्मिंश्चित् अव्यवभिन्ने शब्दे अकारात् परः पदान्ते विसर्गः अस्ति, तर्हि – कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी एतेषु परेषु समासे कृते अस्य विसर्गस्य सकारादेशः भवति । परन्तु यदि सः विसर्गान्तः शब्दः स्वयम् समस्तपदमस्ति, तर्हि अयम् सकारादेशः न भवति । While doing a समास, if all the following conditions are met – 1. the पूर्वपद ends in a विसर्ग that follows an अकार, 2. the उत्तरपद is either a form of the verb ‘कृ‘, or a form of the verb ‘कमि‘ or is one of these words – कंस/कुम्भ/पात्र/कुशा/कर्णी 3. पू्र्वपद is not an अव्यय 4. पू्र्वपद is not a समास – then the विसर्ग of the पूर्वपद is converted to सकार. हे महर्षी पाणिनी यांच्या अष्टाध्यायीमधील विसर्ग संधीचे एक अतिशय अचूक आणि विशिष्ट (Highly specific) सूत्र आहे. जेव्हा विसर्गाच्या मागे ‘अ‘ असतो आणि पुढे ‘क‘ किंवा ‘प‘ येतो, तेव्हा साधारणपणे विसर्ग तसाच राहतो (उदा. प्रातःकालः). परंतु, पाणिनींनी या सूत्राद्वारे काही विशिष्ट शब्दांची यादी दिली आहे, जिथे विसर्गाचा अनिवार्यपणे ‘स्‘ (सकार) होतो. अतः कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीषु अनव्ययस्य । (संपूर्ण सूत्र व मुख्य नियम). नियम: जर विसर्गापूर्वी ऱ्हस्व ‘अ‘ (अतः) असेल, तो शब्द अव्यय नसेल (अनव्ययस्य), आणि त्याच्या पुढे कृ (धातू), कमि (इच्छा करणे), कंस, कुम्भ, पात्र, कुशा, कर्णी यांपैकी एखादा शब्द आला, तर त्या विसर्गाचा ‘स्‘ (सकार) होतो. अतः अनव्ययस्य (अव्यय नसण्याची अट). विश्लेषण: या संधीसाठी दोन अटी महत्त्वाच्या आहेत: १) विसर्गामागे ‘अ‘ हवा. २) तो शब्द अव्यय (कधीही न बदलणारा शब्द) नसावा. जर शब्द अव्यय असेल (उदा. प्रातः, अन्तः), तर हा नियम लागू होत नाही आणि विसर्ग तसाच राहतो (उदा. प्रातः + कालः = प्रातःकालः). शास्त्रीय उदाहरणे (जेथे ‘स्‘ होतो): १. अयस्कारः (अयः + कारः) = लोहार. (येथे ‘अयः‘ हे नाम आहे, अव्यय नाही, आणि पुढे ‘कृ‘ धातूचे रूप आहे.). २. यशस्कामः (यशः + कामः) = यशाची इच्छा असणारा. (पुढे ‘कमि‘ धातूचे रूप). कुम्भ, पात्र, कुशा, कर्णी – (विशिष्ट शब्दांची यादी). विश्लेषण: सूत्रात दिलेल्या यादीतील विशिष्ट नामे पुढे आल्यावरही विसर्गाचा ‘स्‘ होतो. पाणिनींनी भाषेतील प्रत्यक्ष वापराचे (Usage) निरीक्षण करून ही यादी बनवली होती. शास्त्रीय उदाहरणे: १. पयस्कुम्भः (पयः + कुम्भः) = दुधाचा/पाण्याचा घडा. २. पयस्पात्रम् (पयः + पात्रम्) = दुधाचे भांडे. ३. अयस्कुशा (अयः + कुशा) = लोखंडाचा फाळ. टीप: हे सूत्र संस्कृत साहित्यातील अतिशय विशिष्ट सामासिक शब्दांसाठी (लौकिक वापरासाठी) आहे. श्रीमद् भगवद् गीतेमध्ये ‘अयस्कार‘, ‘यशस्काम‘ किंवा ‘पयस्कुम्भ‘ यांसारखे शब्द थेट आलेले नाहीत. गीतेमध्ये ‘यशः‘ हा शब्द येतो, पण तो या सूत्राच्या अटीत बसणाऱ्या शब्दांसोबत (उदा. काम) जोडलेला नाही. उदा. अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । (२.३४) – येथे ‘यश‘ च्या विरुद्ध अर्थाचे शब्द आहेत, पण या विशिष्ट संधीची उदाहरणे गीतेत आढळत नाहीत. थोडक्यात सारांश: हे सूत्र महर्षी पाणिनींच्या सूक्ष्म निरीक्षणाचे उत्तम उदाहरण आहे. साधारण नियमानुसार ‘अयः + कारः = अयःकारः‘ असे व्हायला हवे होते, परंतु लोकभाषेत लोक ‘अयस्कार‘ आणि ‘यशस्काम‘ असेच उच्चारत असत. भाषेतील या नैसर्गिक प्रवाहाचे (Exceptions) व्याकरणात अचूक नियमन करण्यासाठी पाणिनींनी या अत्यंत विशिष्ट शब्दांची यादी या एकाच सूत्रात गुंफली आहे. |
{१४} अधःशिरसी पदे । (८.३.४७) = अधः-शिरसोः समासे विसर्जनीयस्य नित्यम् सः पदे, अनुत्तरपदस्थस्य । समासस्य विषये – अधः तथा शिरः एतयोः विसर्गस्य ‘पद‘ शब्दे परे नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते । ‘अधः + पद‘ इत्यत्र, तथा ‘शिरः + पद‘ इत्यत्र यदि समस्तपदस्य निर्माणम् भवति तर्हि विसर्गस्य नित्यम् सत्वम् भवति, इति अस्य सूत्रस्य अर्थः । यथा – अधः + पदम् = अधस्पदम् । शिरः + पदम् = शिरस्पदम् । अत्र समासः नास्ति चेत् विसर्गस्य सत्वम् न भवति, अतः कुप्वोः≍क≍पौ च ८.३.३७ इत्यनेन वैकल्पिकः उपध्मानीयः भवति – अधःपदम्, अध≍पदम् । शिरःपदम्, शिर≍पदम् । तथा च, ‘अध‘ शब्दः / ‘शिरः‘ शब्दः यदि स्वयम् समस्तपदे अस्ति, तर्हि समास्यस्य निर्माणे जाते अपि विसर्गस्य सत्वम् न भवति । यथा – परमशिरः + पदम् = परमशिरःपदम्, परमशिर≍पदम् । ज्ञातव्यम् – अस्मिन् सूत्रे प्रयुक्तः ‘पद‘ शब्दः व्याकरणस्य संज्ञा नास्ति, साक्षात् ‘पद‘ शब्दः अस्ति । अस्मिन् विषये काशिकान्यासः वदति – ‘पदशब्दे परतः‘ इत्येतेन ‘पद‘ इति स्वरूपस्य ग्रहणम्; न पारिभाषिकस्य । While doing a समास, if the पूर्वपद is either the word अधः or the word शिरः and if the उत्तरपद the word पद, then then the विसर्ग of the पूर्वपद is converted to सकार. However, if the पूर्वपद is itself a समास, then this सकारादेश does not happen. हे पाणिनीय अष्टाध्यायीमधील विसर्ग संधीचे एक अत्यंत छोटे आणि विशिष्ट (Specific) सूत्र आहे. मागील सूत्राप्रमाणेच हे सूत्रही ‘विसर्गाचा सकार (स्)‘ होण्याचा एक विशेष नियम सांगते. सामान्य नियमानुसार विसर्गापुढे ‘प‘ आल्यास विसर्ग तसाच राहतो (उदा. प्रातः + पाठः = प्रातःपाठः). परंतु, या सूत्रात पाणिनी महर्षींनी दोन विशिष्ट शब्दांचा अपवाद सांगितला आहे. अधःशिरसी पदे । संपूर्ण सूत्र व मुख्य नियम. नियम: जेव्हा ‘अधः‘ (खाली) आणि ‘शिरः‘ (डोके) या दोन शब्दांच्या पुढे ‘पद‘ हा शब्द येतो, तेव्हा त्या विसर्गाचा अनिवार्यपणे ‘स्‘ (सकार) होतो. अधःशिरसी – ‘अधस्‘ आणि ‘शिरस्‘ शब्द. विश्लेषण: या सूत्राची व्याप्ती फक्त दोन शब्दांपुरती मर्यादित आहे. ‘अधः‘ आणि ‘शिरः‘ या शब्दांच्या शेवटी असलेल्या विसर्गासाठीच हा नियम लागू पडतो. इतर शब्दांना नाही. शास्त्रीय उदाहरणे: १. अधस्पदम् (अधः + पदम्) = खालचे स्थान किंवा पायाखालची जागा. २. शिरस्पदम् (शिरः + पदम्) = डोक्याकडचे स्थान किंवा शिरोभाग. पदे – ‘पद‘ शब्द पुढे असण्याची अट. विश्लेषण: विसर्गाचा ‘स्‘ होण्यासाठी उत्तरपद (पुढचा शब्द) हा केवळ आणि केवळ ‘पद‘ हाच असला पाहिजे. जर ‘अधः‘ किंवा ‘शिरः‘ च्या पुढे दुसरा कोणताही ‘प‘ ने सुरु होणारा शब्द आला (उदा. पतन), तर विसर्गाचा ‘स्‘ होत नाही. जेथे ‘पद‘ शब्द नाही (अपवाद): अधः + पतनम् = अधःपतनम् (येथे ‘स्‘ झाला नाही, कारण पुढे ‘पद‘ नाही). शिरः + पीडा = शिरःपीडा. टीप: श्रीमद् भगवद् गीतेमध्ये ‘अधस्पद‘ किंवा ‘शिरस्पद‘ हे सामासिक शब्द थेट आलेले नाहीत. मात्र, ‘अधः‘ हा शब्द गीतेत आला आहे, पण तिथे पुढे ‘पद‘ नसल्याने दुसरे नियम लागू झाले आहेत. गीतेतील संदर्भ (इतर संधी): १. ऊर्ध्वमूलम् अधःशाखम्… (अध्याय १५, १) – येथे ‘अधः‘ च्या पुढे ‘श‘ आहे, त्यामुळे विसर्ग तसाच राहिला आहे. २. अधश्चोर्ध्वं प्रसृतास्तस्य… (अध्याय १५, २) – ‘अधः + च‘, येथे पुढे ‘च‘ आल्याने विसर्गाचा ‘श्‘ झाला आहे. थोडक्यात सारांश: हे सूत्र व्याकरणातील अत्यंत सूक्ष्म आणि शब्दनिष्ठ (Vocabulary-specific) नियमाचे उदाहरण आहे. ‘अधःपतन‘ या शब्दात विसर्ग तसाच राहतो, पण ‘अधस्पद‘ या शब्दात ‘स्‘ का येतो, या प्रश्नाचे अचूक उत्तर पाणिनी महर्षींनी या छोट्याशा सूत्रातून दिले आहे. गीतेत याचे थेट उदाहरण नसले तरी, संस्कृत भाषेतील शुद्ध शब्दरचना समजण्यासाठी हे सूत्र अतिशय उपयुक्त आहे. |
{१५} कस्कादिषु च । (८.३.४८) = कस्कादिषु विसर्जनीयस्य सः , इणः षः । कस्कादिगणे निर्दिष्टानां शब्दानां विषये विसर्गस्य सकारादेशः भवति । इण्-वर्णात् परः तु षकारादेशः भवति । ‘कस्कादिगणः‘ अयम् गणपाठस्य १४४-तमः गणः । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन् गणे निर्दिष्टाः शब्दाः ‘यथानिर्दिष्टाः‘ प्रयोक्तव्याः, तेषाम् विषये विसर्गस्य सकारः / षकारः कथमभवत् अस्मिन् विषये चर्चा मास्तु – इति अस्य आशयः । अस्मिन् गणे उपस्थितेषु शब्देषु इण्-वर्णात् परस्य विसर्गस्य षकारादेशः कृतः दृश्यते, अकार-आकारात् परस्य विसर्गस्य सकारादेशः कृतः दृश्यते । अस्मिन् गणे आहत्य १८ शब्दाः सन्ति । तेषामावली इयम् – कस्कः , कौतस्कुतः , भ्रातुष्पुत्रः , शुनस्कर्णः , सद्यस्कालः , सद्यस्कीः , साद्यस्कः , कांस्कान् , सर्पिष्कुण्डिका , धनुष्कपालम् , बहिष्पलम् , यजुष्पात्रम् , अयस्कान्तः , तमस्काण्डः , अयस्काण्डः , मेदस्पिण्डः , भास्करः , अहस्करः । कस्कादिगणः आकृतिगणः अस्ति । इत्युक्ते, कस्मिंश्चित् शब्दे यदि शिष्टप्रयोगेण विसर्गस्य सकारादेशः / षकारादेशः कृतः अस्ति परन्तु तदर्थम् किमपि सूत्रम् न अवगम्यते, तर्हि तस्य शब्दस्य अस्मिन् गणे समावेशः भवितुमर्हति । For the words in the कस्कादिगण, the विसर्ग is to be converted to षकार / सकार as shown for each word. हे महर्षी पाणिनी यांच्या अष्टाध्यायीमधील विसर्ग संधीचे एक अतिशय महत्त्वाचे आणि ‘गणपाठ‘ (Group of words) वर आधारित सूत्र आहे. जेव्हा सामान्य नियमांच्या चौकटीत न बसणारे पण लोकभाषेत रूढ असणारे शब्द पाणिनींच्या निदर्शनास आले, तेव्हा त्यांनी अशा विशिष्ट शब्दांचा एक गट (गण) तयार केला. या गटाला त्यांनी ‘कस्कादि गण‘ असे नाव दिले. कस्कादिषु च । संपूर्ण सूत्र व मुख्य नियम. नियम: ‘कस्कादि‘ गणात (समूहात) येणाऱ्या शब्दांमध्ये विसर्गाचा पुढे येणाऱ्या वर्णानुसार ‘स्‘ (सकार) किंवा ‘ष्‘ (षकार) होतो. यासाठी मागील सूत्रांमधील ‘अव्यय नसणे‘ किंवा ‘समास असणे‘ अशा कठोर अटी लागू होत नाहीत. कस्क (कः + कः) – ‘अ‘ कारान्त उपधा. विश्लेषण: या गटातील पहिला शब्द ‘कस्क‘ आहे. ‘कः + कः‘ अशी संधी होताना विसर्गामागे ‘अ‘ असल्याने त्याचा ‘स्‘ होतो. यासारखेच इतर काही शब्द या गणात आहेत जिथे ‘स्‘ होतो. शास्त्रीय उदाहरणे: १. कस्कः (कः + कः) = कोण कोण? २. कौतस्कुतः (कुतः + कुतः) = कुठून कुठून आलेला? भ्रातुष्पुत्र, सर्पिष्पान – ‘इ/उ‘ कारान्त उपधा. विश्लेषण: याच गणात असेही काही शब्द आहेत जिथे विसर्गामागे ‘इ‘ किंवा ‘उ‘ येतो आणि पुढे ‘क‘ किंवा ‘प‘ येतो. अशा वेळी विसर्गाचा ‘ष्‘ (षकार) होतो. शास्त्रीय उदाहरणे: १. भ्रातुष्पुत्रः (भ्रातुः + पुत्रः) = भावाचा मुलगा (पुतण्या). २. सर्पिष्पानम् (सर्पिः + पानम्) = तूप पिणे. टीप: ‘कस्कादि‘ गणात प्रामुख्याने रोजच्या व्यवहारातील (लौकिक) शब्दांचा समावेश आहे (उदा. भावाचा मुलगा, तूप पिणे, कोण-कोण). श्रीमद् भगवद् गीतेची भाषा अत्यंत तात्त्विक आणि गंभीर असल्याने, या कस्कादि गणातील सामासिक शब्द गीतेत थेट आढळत नाहीत. गीतेतील संबंधित संदर्भाचे विश्लेषण: गीतेत ‘भ्रातृ‘ आणि ‘पुत्र‘ हे शब्द आले आहेत, पण ते वेगळे आले आहेत. उदा. आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस्तथा ॥ (अध्याय १, श्लोक ३४). येथे ‘भ्रातुष्पुत्र‘ असा संधीयुक्त प्रयोग नाही. थोडक्यात सारांश: भाषेचा मूळ स्रोत हा लोकव्यवहार असतो, हे पाणिनी महर्षी जाणत होते. सामान्य व्याकरणाचे नियम बनवल्यानंतर जे शब्द त्या नियमांत बसत नव्हते, पण लोक ते वापरत होते (उदा. ‘भ्रातुःपुत्र‘ ऐवजी ‘भ्रातुष्पुत्र‘), त्यांना चुकीचे न ठरवता पाणिनींनी त्यांचा ‘कस्कादि‘ नावाचा एक वेगळा गट बनवला आणि या सूत्राद्वारे त्यांना व्याकरणात अधिकृत मान्यता दिली. संस्कृत भाषेची लवचिकता आणि सर्वसमावेशकता या सूत्रातून दिसून येते. |
{१६} ससजुषो रुः । (८.२.६६) = पदस्य ससजुषोः रुँः । पदान्तसकारस्य सजुष्-शब्दस्य च रुँत्वं भवति । पदान्ते विद्यमानस्य सकारस्य, तथा च सजुष्-शब्दस्य (इत्युक्ते, अलोऽन्त्यस्य १.१.५२ इत्यनेन तदन्तस्य षकारस्य) प्रकृतसूत्रेण ‘रुँ‘ इति आदेशः भवति । पदान्तसकारस्य रुँत्वम् — राम-शब्दस्य प्रथमैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वं भवति । पयस्-शब्दस्य प्रथमा-द्वितीया-एकवचनस्य रूपे प्रकृसूत्रेण रुत्वं विधीयते । पठ्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वे कृते विसर्गः विधीयते । सजुष्-शब्दस्य षकारस्य रुँत्वम् — सजुष् ( = सहयोगी / companion) इति षकारान्तशब्दः । जुषीँ (प्रीतिसेवनयोः, तुदादिः, ६.८) अस्मात् धातोः सहइति उपपदस्य उपस्थितौ क्विप् च ३.२.७६ इत्यनेन क्विप्-प्रत्यये कृते, प्रक्रियायाम् सहस्य सः संज्ञायाम् ६.३.७८ अनेन सूत्रेण सह-इत्यस्य सकारादेशे कृते सजुष् शब्दः सिद्ध्यति । सह जुषते (the one who accompanies along) इति सजूः — इति अस्य शब्दस्य अर्थः । अस्यैव सजुष् इति प्रथमैकवचनस्य रूपस्य सिद्धौ जुष्-धातोः षकारस्य प्रकृतसूत्रेण रुँत्वम् विधीयते । षत्वस्य असिद्धत्वम् आदेशप्रत्यययोः ८.३.५९ इत्यस्मिन् अधिकारे विहितम् षत्वम् प्रकृतसूत्रस्य कृते असिद्धम् अस्ति । अतएव, आशीष्, धनुष् इत्यादिषु शब्देषु अन्ते षकारस्य स्थाने मूलरूपेण सकारम् दृष्ट्वा प्रकृतसूत्रेण तस्य विसर्गादेशः सम्भवति । बाध्यबाधकभावः |
{१७} अतो रोरप्लुतादप्लुते । (६.१.११३) = अप्लुतात् अतः रोः उत् अप्लुते अति । अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य अप्लुत-ह्रस्व-अकारे परे उकारादेशः भवति । ‘रुँ‘ इति आदेशात् पूर्वम्, तस्माद् अनन्तरम् च यदि अप्लुतः ह्रस्वः अकारः विद्यते, तर्हि रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि ८.३.१७ इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति — इति अस्य सूत्रस्य आशयः । ससजुषो रुँः ८.२.६६ इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे अकारः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति । अहन् ८.२.६८ इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे अकारः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति । सिपि धातोः रुर्वा ८.२.७४ इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे अकारः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । दश्च ८.२.७५ इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे अकारः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः ‘रुँ‘ इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव ससजुषोः रुः ८.२.६६, अहन् ८.२.६८, सिपि धातो रुर्वा ८.२.७४, दश्च ८.२.७५ इत्यादीनि सर्वाणि त्रिपादीसूत्राणि अतो रोरप्लुतादप्लुते ६.१.११३ इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति । A रुँ letter that is sandwiched between an अप्लुत-ह्रस्व-अकार from each side is converted to an उकार. हे पाणिनीय अष्टाध्यायीमधील विसर्ग संधीचे (विशेषतः ‘उत्व संधीचे‘) अत्यंत सुप्रसिद्ध आणि सर्वाधिक वापरले जाणारे सूत्र आहे. संस्कृत साहित्यात किंवा भगवद् गीतेत आपल्याला जो ‘अवग्रह‘ (ऽ) चिन्ह असलेला ‘ओ‘ (उदा. सोऽहम्, लोकोऽयम्) दिसतो, तो याच सूत्राच्या प्रक्रियेतून तयार होतो. या सूत्रात पाणिनी महर्षींनी ‘रु‘ (म्हणजेच विसर्ग) चे ‘उ‘ मध्ये कसे रूपांतर होते, याचा अत्यंत अचूक नियम सांगितला आहे. अतो रोरप्लुतादप्लुते । संपूर्ण सूत्र व मुख्य नियम. नियम: जर ‘रु‘ (र् / विसर्ग) च्या आधी ऱ्हस्व ‘अ‘ असेल आणि त्याच्या पुढेही ऱ्हस्व ‘अ‘ आला असेल, तर त्या ‘रु‘ च्या जागी ‘उ‘ असा आदेश होतो. (पुढे या ‘उ‘ चा ‘ओ‘ आणि पुढच्या ‘अ‘ चा ‘ऽ‘ होतो). अतः आणि रोः – पूर्व अट: आधी ‘अ‘ असणे. विश्लेषण: या संधीची पहिली अट म्हणजे विसर्गाच्या (रु) आधी ‘अ‘ स्वर असला पाहिजे. ‘रोः‘ म्हणजे ‘रु‘ च्या जागी कार्य होते. ‘ससजुषो रुः‘ नुसार पदांत ‘स्‘ चा ‘रु‘ झालेला असतो. अजोऽपि (अजः + अपि). उदा. अजोऽपि सन्नव्ययात्मा… (४.६). येथे अज ‘अ‘ + रु + अ ‘पि‘ अशी स्थिती आहे. अप्लुताद् अप्लुते – प्लुत नसण्याची अट. विश्लेषण: ‘प्लुत‘ म्हणजे लांबवून उच्चारलेला स्वर (उदा. ॐ३). पाणिनी स्पष्ट करतात की विसर्गाच्या आधीचा ‘अ‘ आणि पुढचा ‘अ‘ हे दोन्ही अप्लुत (केवळ ऱ्हस्व अ) असले पाहिजेत. ‘आ‘ किंवा ‘प्लुत अ‘ असेल तर हा नियम लागत नाही. लोकोऽयम् (लोकः + अयम्) उदा. …लोकोऽयं कर्मबन्धनः । (३.९). कर्मणोऽन्यत्र (कर्मणः + अन्यत्र) |
{१८} हशि च । (६.१.११४) = अप्लुतात् अतः रोः उत् हशि । अप्लुत-ह्रस्व-अकारात् परस्य रुँ-इत्यस्य हश्-वर्णे परे उकारादेशः भवति । ‘रुँ‘ इति आदेशात् पूर्वम् यदि ह्रस्व-अकारः विद्यते, तथा च अस्मात् आदेशात् अनन्तरम् यदि हश्-वर्णः विद्यते, तर्हि रुँ इत्यस्य भोभगोअघोअपूर्वस्य योऽशि ८.३.१७ इत्यनेन प्राप्तम् यकारादेशं बाधित्वा प्रकृतसूत्रेण उकारादेशः भवति — इति अस्य सूत्रस्य आशयः । हश् = सर्वाणि मृदुव्यञ्जनानि = वर्गतृतीयाः, वर्गचतुर्थाः, वर्गपञ्चमाः, अन्तःस्थाः, हकारः । इति आहत्य २० वर्णाः । ससजुषो रुँः ८.२.६६ इत्यनेन पदान्तसकारस्य रुँत्वे कृते, अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति । अहन् ८.२.६८ इत्यनेन पदान्तनकारस्य रुँत्वे कृते अग्रे हश्-वर्णः विद्यते चेत् प्रकृतसूत्रेण रेफस्य उत्वम् सम्भवति । सिपि धातोः रुर्वा ८.२.७४ इति सूत्रेण धातोः अन्ते विद्यमानस्य सकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । दश्च ८.२.७५ इति सूत्रेण धातोः अन्ते विद्यमानस्य दकारस्य सिप्-प्रत्यये परे विकल्पेन रुँ-आदेशः भवति । अस्मिन् आदेशे कृते अग्रे हश्-वर्णः अस्ति चेत् प्रकृतसूत्रेण तस्य रुँत्वम् सम्भवति । प्रकृतसूत्रे स्थानीरूपेण निर्दिष्टः ‘रुँ‘ इति शब्दः केवलं त्रिपादीसूत्रैः एव सिद्ध्यति, न हि कैश्चित् सपादसप्ताध्याय्याः सूत्रैः । अतः, अत्र सूत्रविधानसामर्थ्याद् एव ससजुषोः रुः ८.२.६६, अहन् ८.२.६८, सिपि धातो रुर्वा ८.२.७४, दश्च ८.२.७५ इत्यादीनि सर्वाणि त्रिपादीसूत्राणि हशि च ६.१.११४ इति सपादसप्ताध्याय्याः सूत्रस्य कृते सिद्धानि एव सन्ति । रुत्वात् अनन्तरम् उत्वे कृते ततः सपादसप्ताध्याय्याः सूत्रैः पाठितम् गुणकार्यम् अपि इष्यते, अतएव इदं सूत्रम् आचार्यैः सपादसप्ताध्याय्यां संस्थाप्य, रुत्वं प्रति निर्देशसामर्थ्यात् सिद्धं ज्ञापितम् अस्ति । A रुँ letter that follows an अप्लुत-ह्रस्व-अकार and is followed by a हश् letter is converted to an उकार. हे पाणिनीय अष्टाध्यायीमधील विसर्ग संधीचे (उत्व संधीचे) आणखी एक अत्यंत महत्त्वाचे आणि दैनंदिन व्यवहारात सर्वाधिक वापरले जाणारे सूत्र आहे. मागील सूत्रात (अतो रोरप्लुतादप्लुते) आपण पाहिले की विसर्गापुढे ‘अ‘ स्वर आल्यास ‘ओ‘ आणि अवग्रह (ऽ) होतो (उदा. सोऽहम्). परंतु, जेव्हा विसर्गाच्या पुढे स्वर नसून ‘मृदू व्यंजन‘ येते, तेव्हा काय होते, याचा अचूक नियम या ‘हशि च‘ सूत्रात सांगितला आहे. (उदा. मनः + रथः = मनोरथः). हशि च । संपूर्ण सूत्र व मुख्य नियम. नियम: जर ‘रु‘ (र् / विसर्ग) च्या आधी ऱ्हस्व ‘अ‘ असेल आणि त्याच्या पुढे ‘हश्‘ प्रत्याहारातील एखादा वर्ण आला असेल, तर त्या ‘रु‘ च्या जागी ‘उ‘ असा आदेश होतो. हशि – ‘हश्‘ प्रत्याहार म्हणजे काय? विश्लेषण: पाणिनीय व्याकरणानुसार ‘हश्‘ मध्ये सर्व मृदू व्यंजनांचा (Voiced consonants) समावेश होतो. उदा. ह, य, व, र, ल आणि सर्व वर्गांची तिसरी, चौथी व पाचवी अक्षरे (ग, घ, ङ, ज, झ, ञ, ड, ढ, ण, द, ध, न, ब, भ, म). रजोगुण (रजः + गुण). उदा. काम एष क्रोध एष रजोगुणसमुद्भवः । (अध्याय ३, ३७). येथे ‘रजः‘ मधील विसर्गापुढे ‘ग‘ हे ‘हश्‘/मृदू व्यंजन आले आहे. च – ‘आणि‘ – अनुवृत्ती. विश्लेषण: ‘च‘ (आणि) या शब्दाने मागील सूत्रातील ‘अतो रोरप्लुतादप्लुते‘ मधून ‘अतः‘ आणि ‘रोः‘ या पदांची अनुवृत्ती (Continuation) येथे घेतली जाते. म्हणजे “आधी ‘अ‘ असण्याची अट” इथेही कायम आहे. यतो यतो (यतः + यतः). उदा. यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । (अध्याय ६, २६). विसर्गापुढे ‘य‘ हे मृदू व्यंजन आल्याने ‘यतो‘ झाले. संधीची साखळी – अवग्रह का होत नाही? विश्लेषण: १) रु –> उ (हशि च नुसार). २) अ + उ = ओ (आद्गुणः). परंतु इथे पुढे ‘अ‘ स्वर नसल्यामुळे, ‘पूर्वरूप संधी‘ होत नाही आणि अवग्रह (ऽ) लागत नाही. फक्त ‘ओ‘ होऊन पुढचे व्यंजन तसेच जोडले जाते. ततो युद्धाय (ततः + युद्धाय). उदा. ततो युद्धाय युज्यस्व… (अध्याय २, ३८). योगो भवति (योगः + भवति). उदा. …योगो भवति दुःखहा । (अध्याय ६, १७). |
{१९} रो रि । (८.३.१४) = रः रि लोपः । रेफस्य संहितायाम् रेफे परे लोपः भवति । संहितायाम् रेफात् परः पुनः रेफः विद्यते चेत् प्रथमरेफस्य लोपः भवति इति अस्य सूत्रस्य अर्थः । इदम् सूत्रम् पदस्य ८.१.१६ अस्मिन् अधिकारे विद्यते, अतः पदान्तरेफस्य रेफे परे अनेन सूत्रेण लोपः सम्भवति । कासुचित् (क्लिष्टासु) प्रक्रियासु तु अपदान्तरेफस्य अपि रेफे परे अनेन सूत्रेण लोपः कृतः दृश्यते । आश्रयात् सिद्धत्वम् ; तस्य प्रयोजनम् चिन्त्यम् : प्रकृतसूत्रेण रेफस्य लोपे कृते, तस्मात् रेफात् पूर्वम् अण्-वर्णः विद्यते चेत् ढ्रलोपे पूर्वस्य दीर्घोऽणः ६.३.१११ इत्यनेन तस्य दीर्घादेशः क्रियते । अतः प्रकृतसूत्रम् ढ्रलोपे पूर्वस्य दीर्घोऽणः एतस्य कृते आश्रयात् सिद्धम् ज्ञेयम् । A रेफ is removed when it is followed by another रेफ in the context of संहिता. हे पाणिनीय अष्टाध्यायीमधील एक अत्यंत महत्त्वाचे आणि रंजक सूत्र आहे. जरी हे सूत्र ‘रुत्व‘ (र्) चे असले, तरी ‘र्‘ हा मूळ विसर्गापासूनच (ससजुषो रुः) तयार होत असल्यामुळे याला विसर्ग संधीच्या प्रक्रियेचाच एक भाग मानले जाते. या सूत्राचा अर्थ पूर्ण होण्यासाठी याच्यासोबत ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः‘ (६.३.१११) या आणखी एका सूत्राचा संदर्भ घेणे अनिवार्य असते. या दोन सूत्रांच्या एकत्रीकरणातूनच आपल्याला संस्कृतमधील ‘नीरोग‘ किंवा ‘नीरस‘ यांसारखे शब्द मिळतात. रो रि । – मुख्य सूत्र. नियम: जेव्हा एका ‘र्‘ (रेफ) च्या पुढे लगेचच दुसरा ‘र्‘ येतो, तेव्हा पहिल्या ‘र्‘ चा लोप होतो (म्हणजेच तो नाहीसा होतो). थोडक्यात: र् + र् = पहिला र् गायब. ढ्रलोपे पूर्वस्य दीर्घोऽणः । (६.३.१११). विश्लेषण: फक्त ‘र्‘ गायब होऊन चालत नाही. पाणिनी महर्षींचा पुढचा नियम सांगतो की, जेव्हा ‘रो रि‘ नुसार ‘र्‘ चा लोप होतो, तेव्हा त्या गायब झालेल्या ‘र्‘ च्या अगदी आधी असलेला ऱ्हस्व स्वर (अ, इ, उ) ‘दीर्घ‘ (आ, ई, ऊ) होतो. अ चा आ: = पुनर् + रमते à पुन + र् + रमते à पुन + अ + रमते à पुना रमते. ‘इ‘ आणि ‘उ‘ चे दीर्घ रूप – दैनंदिन व्यवहारातील उदाहरणे. विश्लेषण: जेव्हा ‘निर्‘, ‘दुर्‘, ‘हरिर्‘, ‘शम्भुर्‘ यांसारख्या शब्दांतील ‘र्‘ च्या पुढे ‘र‘ ने सुरू होणारा शब्द येतो, तेव्हा ‘र्‘ जाऊन मागील ‘इ‘ चा ‘ई‘ आणि ‘उ‘ चा ‘ऊ‘ होतो. इ चा ई: निर् + रोगः –> नि + र् + रोगः à नीरोगः. निर् + रसः à नि + र् + रसः à नीरसः. हरिर् + रम्यः à हरी रम्यः. उ चा ऊ: शम्भुर् + राजते à शम्भू राजते. टीप: श्रीमद् भगवद् गीतेमध्ये ‘पुनर्‘, ‘अन्तर्‘, ‘निर्‘ हे शब्द अनेकदा आले आहेत. मात्र, त्यांच्यापुढे ‘र‘ ने सुरू होणारा शब्द आला आहे आणि ‘रो रि‘ लागू होऊन स्वर दीर्घ झाला आहे, अशी थेट उदाहरणे गीतेच्या श्लोकांमध्ये उपलब्ध नाहीत. गीतेतील संदर्भ (इतर संधी): गीतेत ‘पुनर्‘ पुढे दुसरे वर्ण आले आहेत. उदा. पुनर्जन्म न विद्यते । (८.१६). येथे ‘पुनर्‘ च्या पुढे ‘ज‘ आला आहे, दुसरा ‘र‘ नाही. त्यामुळे ‘रो रि‘ सूत्र लागू न होता ‘र्‘ चा रफार झाला आहे. |
{२०} भोभगोअघोअपूर्वस्य योऽशि । (८.३.१७) = भो-भगो-अघो-अपूर्वस्य पदस्य रोः अशि यः । भोस्, भगोस्, अघोस् – एतेषाम् अन्ते विद्यमानस्य पदान्त-रुँ-वर्णस्य, तथा च अवर्णात् अनन्तरम् विद्यमानस्य पदान्त-रुँ-वर्णस्य संहितायाम् अश्-वर्णे परे यकारादेशः भवति । अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते । पदान्ते विद्यमानस्य रुँवर्णस्य प्रकृतसूत्रेण द्वयोः स्थलयोः यकारादेशः विधीयते । भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य रुँ-इत्यस्य यकारादेशः = भोस्, भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । चादयोऽसत्वे १.४.५७ इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण भोस् इति अव्ययम् हे अस्मिन् अर्थेे मनुष्याणाम् सम्बोधनार्थम्; भगोस् इति अव्ययम् भगवन् अस्मिन् अर्थे देवानाम् सम्बोधनार्थम्, तथा च अघोस् इति अव्ययम् पापिन् अस्मिन् अर्थे राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य ससजुषो रुः ८.२.६६ इत्यनेन रुँत्वे कृते, अश्-वर्णे परे प्रकृतसूत्रेण तस्य यकारादेशः भवति । अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-रुँ-इत्यस्य यकारादेशः = अकारात् उत आकारात् अनन्तरम् पदान्ते रुँ-वर्णः विधीयते चेत् तस्य अश्-वर्णे परे यकारादेशः भवति । दलकृत्यम्: १. रुँ-वर्णस्य इति किमर्थम् ? पदान्ते विद्यमानस्य रेफस्य अनेन सूत्रेण यकारादेशः न भवति । यथा, पुनर् गच्छति इत्यत्र पदान्ते केवलं रेफः विद्यते, न हि रुँ-वर्णः, अतः संहितायाम् सत्याम् अपि अस्य रेफस्य अश्-वर्णे परे (गकारे परे) प्रकृतसूत्रेण यकारादेशः न भवति, अपि तु केवलम् वर्णमेलनम् कृत्वा पुनर्गच्छति इति रूपं सिद्ध्यति । अकारात् / आकारात् परस्य रुँ-वर्णस्य इति किमर्थम् ? यत्र रुँ-वर्णात् पूर्वम् अन्यः वर्णः विद्यते, तत्र प्रकृतसूत्रेण यकारादेशः न भवति । यथा, ‘मुनि + सुँ + इति‘ इत्यत्र सुँ-प्रत्ययस्य रुँत्वे कृते तस्य यकारादेशः न भवति । अश्-वर्णे परे इति किमर्थम् ? यदि पदान्त-रुँवर्णात् परः अश् वर्णः नास्ति, तर्हि तत्र प्रकृतसूत्रम् नैव प्रवर्तते । बाध्यबाधकभावः = प्रकृतसूत्रेण अवर्णात् (अकारात् / आकारात्) परस्य रुँ-वर्णस्य अश्-वर्णे परे यकारादेशः विधीयते । परन्तु यत्र रुँ-वर्णात् पूर्वम् ह्रस्वः अकारः अस्ति, तत्र द्वयोः स्थलयोः प्रकृतसूत्रस्य सपादसप्ताध्याय्याः सूत्राभ्याम् बाधः भवति । एते स्थले एतादृशे — ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य ह्रस्व-अकारे परे अतो रोरप्लुतादप्लुते ६.१.११३ इति उकारादेशः भवति । ह्रस्व-अकारात् परस्य पदान्त-रुँ-वर्णस्य हश्-वर्णे परे (मृदुव्यञ्जने परे) हशि च ६.१.११४ इति उकारादेशः भवति । सूत्रे ‘अशि‘ शब्दग्रहणम् व्यर्थम् = अस्मिन् सूत्रे ‘अशि‘ इति शब्दः वस्तुतः अनावश्यकः अस्ति । In the context of संहिता, A पदान्त रुँ that is present either at the end of भोस्/भगोस्/अघोस्, or after the letter अ/आ is converted to यकार when followed by a letter from the अश् प्रत्याहार. जेव्हा आपण गीतेत ‘अर्जुन उवाच‘ किंवा ‘सञ्जय उवाच‘ वाचतो, तेव्हा ‘अर्जुनः‘ आणि ‘सञ्जयः‘ मधील विसर्ग अचानक कुठे गायब होतो, याचे शास्त्रीय उत्तर या सूत्रात दडलेले आहे. या सूत्राचा अर्थ पूर्ण होण्यासाठी याच्यासोबत ‘लोपः शाकल्यस्य‘ (८.३.१९) या सूत्राची जोड द्यावी लागते, ज्याने तयार झालेल्या ‘य्‘ चा लोप (गायब) होतो. भोभगोअघोअपूर्वस्य योऽशि । संपूर्ण सूत्र व मुख्य नियम. नियम: जर ‘रु‘ (र् / विसर्ग) च्या मागे ‘भोस्‘, ‘भगोस्‘, ‘अघोस्‘ हे शब्द असतील किंवा ऱ्हस्व ‘अ‘ किंवा दीर्घ ‘आ‘ असेल, आणि त्याच्या पुढे ‘अश्‘ प्रत्याहारातील वर्ण (सर्व स्वर किंवा मृदू व्यंजने) आला, तर त्या ‘रु‘ (विसर्गा) च्या जागी ‘य्‘ (यकार) होतो. (आणि पुढे बहुतांश वेळा ‘लोपः शाकल्यस्य‘ ने या ‘य्‘ चा लोप होतो). भो, भगो, अघो संबोधनवाचक शब्द. विश्लेषण: हे तिन्ही शब्द संस्कृतमध्ये आदरार्थी संबोधन (हाक मारण्यासाठी) वापरले जातात. या सूत्राने यांच्या विसर्गाचा ‘य्‘ होऊन तो गायब होतो उदा. भोः + हरे = भो हरे. टीप: श्रीमद् भगवद् गीतेची भाषा तात्त्विक असल्याने ‘भोः‘ किंवा ‘भगोः‘ सारखे संवादात्मक/संबोधनवाचक शब्द थेट संधीच्या रूपात गीतेत आढळत नाहीत. हा भाग प्रामुख्याने लौकिक संस्कृतसाठी आहे. अ-पूर्वस्य (अ किंवा आ पूर्वी असणे) सर्वात महत्त्वाचा भाग. विश्लेषण: पाणिनींनी येथे फक्त ‘अ‘ म्हटला आहे (अत् नाही), त्यामुळे यात ‘अ‘ आणि ‘आ‘ दोन्ही स्वरांचा समावेश होतो. जर विसर्गामागे ‘अ‘ असेल आणि पुढे ‘अ‘ सोडून दुसरा स्वर असेल (कारण ‘अ‘ असल्यास ‘अतो रोरप्लुतादप्लुते‘ ने ‘ओ‘ होतो), तर विसर्ग गायब होतो. अर्जुन उवाच (अर्जुनः + उवाच) = अर्जुनस् à अर्जुनर् à अर्जुनय् + उवाच à अर्जुन उवाच (१.२१). सञ्जय उवाच (सञ्जयः + उवाच) = उदा. सञ्जय उवाच । (१.२) येथे विसर्गामागे ‘अ‘ आहे आणि पुढे ‘उ‘ हा स्वर आल्याने विसर्ग पूर्णपणे लुप्त झाला. योऽशि (यः + अशि) = ‘य्‘ होणे आणि पुढे ‘अश्‘ असणे. विश्लेषण: ‘अश्‘ प्रत्याहारात सर्व स्वर आणि मृदू व्यंजने येतात. जेव्हा बहुवचनी नामांच्या शेवटी ‘आः‘ येतो आणि पुढे ‘अश्‘ येतो, तेव्हा या सूत्राने ‘आः‘ चा ‘आय्‘ होतो आणि मग तो ‘य्‘ गायब होऊन फक्त ‘आ‘ उरतो. यामुळे दोन शब्द संधी होऊनही वेगळे दिसतात. देहा नित्यस्य (देहाः + नित्यस्य). उदा. अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । (२.१८). गुणा गुणेषु (गुणाः + गुणेषु) = उदा. गुणा गुणेषु वर्तन्ते… (३.२८). येथे विसर्गामागे ‘आ‘ आहे आणि पुढे ‘ग/न‘ हे मृदू व्यंजन आल्याने विसर्ग गायब झाला. |
{२१} हलि सर्वेषाम् । (८.३.२२) = भो-भगो-अघो-अपूर्वस्य पदस्य यः हलि लोपः सर्वेषाम् । भोस्, भगोस्, अघोस् एतेभ्यः परस्य तथा च अवर्णात् परस्य पदान्ते विद्यमानस्य सामान्ययकारस्य लघूच्चारणयकारस्य च संहितायाम् हल्-वर्णे परे लोपः भवति । भोस्, भगोस् तथा अघोस् एतेषाम् अन्ते विद्यमानस्य सकारस्य, तथा च अवर्णात् (अकारात् / आकारात्) अन्तन्तरम् पदान्ते विद्यमानस्य सकारस्य ससजुषो रुः ८.२.६६ इत्यनेन रुँत्वे कृते, तस्य हश्-वर्णे परे भोभगोअघोअपूर्वस्य योऽशि ८.३.१८ इत्यनेन यकारादेशः भवति । अस्य यकारस्य व्योर्लघुप्रयत्नतरः शाकटायनस्य ८.३.१८ इत्यनेन विकल्पेन लघूच्चारणः यकारः विधीयते । एतयोः द्वयोः अपि यकारयोः (इत्युक्ते, सामान्ययकारस्य, लघूच्चारणस्य यकारस्य च) प्रकृतसूत्रेण हल्-वर्णे परे लोपः भवति । भोस्, भगोस्, अघोस् एतेषाम् अन्ते विद्यमानस्य यकारस्य हलि परे लोपः भवति । भोस्, भगोस् तथा च अघोस् —एते त्रयः शब्दाः निपाताः (अतश्च, अव्ययसंज्ञकाः, अतश्च पदसंज्ञकाः) सन्ति । चादयोऽसत्वे १.४.५७ इत्यत्र निर्दिष्टस्य चादिगणस्य आकृतिगणत्वात् एते शब्दाः पण्डितैः तत्रैव समाविश्यन्ते । एते त्रयः अपि शब्दाः सम्बोधनवाचकाः सन्ति । सामान्यरूपेण ‘भोस्‘ इति अव्ययम् मनुष्याणाम् सम्बोधनार्थम्; ‘भगोस्‘ इति अव्ययम् देवानाम् सम्बोधनार्थम्, ‘अघोस्‘ इति अव्ययं च राक्षसानाम् सम्बोधनार्थम् उपयुज्यते । एतेषाम् सर्वेषाम् अन्ते विद्यमानस्य सकारस्य ससजुषो रुः ८.२.६६ इत्यनेन रुँत्वे कृते, अश्-वर्णे परे तस्य भोभगोअघोअपूर्वस्य योऽशि ८.३.१७ इत्यनेन यकारादेशे कृते, प्रकृतसूत्रेण हल्-वर्णे परे अयम् यकारः लुप्यते । अवर्णात् (अकारात् /आकारात्) अनन्तरम् विद्यमानस्य पदान्त-यकारस्य हलि परे लोपः भवति । ‘हलि‘ इत्यस्य ‘हशि‘ इत्येव अर्थः यद्यपि अस्मिन् सूत्रे ‘हलि‘ इति निर्देशः कृतः अस्ति, तथापि पदान्तयकारस्य निर्माणम् अच्-वर्णे परे, हश्-वर्णे च परे एव सम्भवति । तत्र अच्-वर्णे परे तु पदान्तयकारस्य लोपः शाकल्यस्य ८.३.१९ इत्यनेन विकल्पेन लोपः भवति । हश्-वर्णे परे पदान्तयकारस्य नित्यम् एव लोपः इष्यते, तदर्थम् प्रकृतसूत्रस्य निर्माणं कृतम् अस्ति । अतएव अस्मिन् सूत्रे अशि इति शब्दस्य अनुवृत्तिं कृत्वा तस्य हलि शब्देन सह अन्वयः क्रियते, येन अशि हलि लोपः भवति इति अर्थः सिद्ध्यति । In the context of संहिता, all the grammarians say that the normal यकार as well as the लघु-उच्चारण-यकार is removed when it is followed by a हल्-letter, provided that such a यकार occurs at end of a पद and comes after the letter अ , or if such a यकार occurs at the end of the words भोस्, भगोस्, or अघोस्. मागील सूत्रात (‘भोभगोअघोअपूर्वस्य योऽशि‘ – ८.३.१७) आपण पाहिले की ‘आ‘ च्या पुढे असलेल्या विसर्गाचा (रु चा) ‘य्‘ होतो. पण त्या ‘य्‘ चे पुढे काय करायचे? तो ठेवायचा की काढून टाकायचा? याचे अंतिम आणि ठाम उत्तर महर्षी पाणिनी या ‘हलि सर्वेषाम्‘ सूत्रात देतात. हलि सर्वेषाम् । संपूर्ण सूत्र व मुख्य नियम. नियम: जेव्हा विसर्गाचा (किंवा रु चा) ‘य्‘ झालेला असतो, आणि त्या ‘य्‘ च्या पुढे ‘हल्‘ (कोणतेही व्यंजन) येते, तेव्हा सर्व आचार्यांच्या मते त्या ‘य्‘ चा नित्य (अनिवार्य) लोप होतो. (म्हणजेच तो ‘य्‘ कायमचा गायब होतो). हलि = व्यंजन पुढे असण्याची अट. विश्लेषण: ‘हल्‘ या प्रत्याहारात संस्कृतमधील सर्व व्यंजनांचा समावेश होतो. हे सूत्र स्पष्ट करते की, ‘य्‘ ला हटवण्यासाठी त्याच्या पुढचा शब्द हा कोणत्याही व्यंजनाने सुरू होणारा असला पाहिजे. (जर पुढे स्वर असेल, तर नियम वेगळा लागतो). गुणा गुणेषु = गुणाः + गुणेषु. उदा. गुणा गुणेषु वर्तन्ते… (३.२८). प्रक्रिया: गुणाः à गुणाय् à पुढे ‘ग‘ हे व्यंजन आल्याने ‘य्‘ चा अनिवार्य लोप à गुणा गुणेषु. सर्वेषाम् = ‘सर्वांच्या मते‘ – अनिवार्यतेची मोहोर. विश्लेषण: या सूत्राच्या आधी ‘लोपः शाकल्यस्य‘ (८.३.१९) हे सूत्र येते, ज्यानुसार शाकल्य ऋषींच्या मते स्वरांपुढे ‘य्‘ चा लोप ‘विकल्पाने‘ (ऐच्छिक) होतो. परंतु, जेव्हा पुढे ‘व्यंजन‘ येते, तेव्हा पाणिनी म्हणतात की इथे कोणाचाही वेगळा मतप्रवाह नाही; ‘सर्वेषाम्‘ (सर्व व्याकरणाचार्यांच्या मते) इथे ‘य्‘ गायब झालाच पाहिजे. हा लोप नित्य / अनिवार्य आहे. देहा नित्यस्य = देहाः + नित्यस्य. उदा. अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । (२.१८). प्रक्रिया: देहाः à देहाय् à पुढे ‘न‘ व्यंजन आल्याने ‘हलि सर्वेषाम्‘ नुसार ‘य्‘ चा कायमचा लोप. संधीचे दृश्य परिणाम = दोन शब्द वेगळे दिसणे. विश्लेषण: या संधीचा सर्वात मोठा परिणाम म्हणजे, संधी होऊनही बहुवचनी (आः) शब्द आणि पुढचा शब्द हे दोन स्वतंत्र शब्द असल्यासारखेच दिसतात. त्यांना एकमेकांत जोडले जात नाही. त्यामुळे वाचताना अर्थ लावणे सोपे जाते. भावा यन्ति = भावाः + यन्ति = उदा. …तथा भावा यन्त्यभावं… जनाः पर्युपासते = ये जनाः पर्युपासते = उदा. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । (९.२२). |
{२२} एतत्तदोः सुलोपोऽकोरनञ्समासे हलि । (६.१.१३२) = अनञ्समासे – अकोः एतद्-तदोः हलि सुँलोपः । नञ्-समासं विहाय अन्यत्र ककारविहीनात् एतद्/तद्-शब्दात् परस्य सुँ-प्रत्ययस्य व्यञ्जने परे संहितायाः विषये लोपः भवति । एतद् तथा तद् एतयोः शब्दयोः प्रथमैकवचनस्य प्रक्रियायाम् सुँ-प्रत्ययस्य हल्-वर्णे परे संहितायाम् लोपं कारयितुम् इदं सूत्रम् निर्मितम् अस्ति । केषुचन स्थलेषु एतादृशः लोपः न हि इष्यते, अतः ‘अकोः‘ तथा ‘अनञ्समासे‘ इति द्वौ निषेधौ अपि अस्मिन्नेव सूत्रे स्थापिते स्तः । यत्र एतद् / तद् शब्दः नञ्-समासे प्रयुज्यते, यत्र वा अयम् अकच्-प्रत्ययेन सह प्रयुज्यते, तादृशं प्रयोगं त्यक्त्वा अन्येषु प्रयोगेषु एताभ्याम् विहितस्य सुँ-प्रत्ययस्य संहितायाम् हल्-वर्णे परे लोपः भवति — इति अस्य सूत्रस्य आशयः । नञ्-समासः / अकच्-प्रत्ययः नास्ति चेत् हल्-वर्णे परे सुँलोपः भवति । नञ्-समासे प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । यत्र केवलम् ‘न‘ अव्ययं प्रयुज्यते, नञ्-समासः नास्ति, तत्र तु इदम् सूत्रम् अवश्यमेव प्रयोक्तव्यम् । यथा, ‘न एष ददाति‘ इत्यत्र यद्यपि ‘न‘ इति अव्ययम् उपयुक्तं वर्तते, तथापि अस्य एतद्-शब्देन सह समासः नैव कृतः अस्ति, अतः अत्र एतद्-शब्दात् परस्य ‘सुँ‘ प्रत्ययस्य हल्-वर्णे परे अवश्यं लोपः भवति । अकच्-प्रत्ययेन सह प्रयुक्तस्य एतद् / तद् शब्दस्य विषये इदं सूत्रं न प्रवर्तते । बाध्यबाधकभावः |
{२३} खरवसानयोर्विसर्जनीयः । (८.३.१५) = पदस्य रः खर्-अवसानयोः विसर्जनीयः संहितायाम् । पदान्ते विद्यमानस्य रेफस्य संहितायाम् खर्-वर्णे परे अथवा अवसाने परे विसर्गादेशः भवति । अष्टाध्याय्यां विद्यमानम् इदम् विसर्ग-निर्माणस्य (एकम् एव) सूत्रम् । पदान्तरेफस्य अनेन सूत्रेण अवसाने परे, तथा च संहितायाम् खर्-वर्णे परे विसर्गादेशः भवति । खर् = कर्कशव्यञ्जनानि = वर्गप्रथमाः, वर्गद्वितीयाः, शषसाः = ख्, फ्, छ्, ठ्, थ्, च, ट्, त्, क्, प्, श्, ष्, स् । खर्-प्रत्याहारे हकारः न अन्तर्भवति । सूचना – अवसानम् इति संज्ञा विरामोऽवसानम् १.४.११० इति सूत्रेण दीयते । दलकृत्यम्: आपण संस्कृतमध्ये जेवढे विसर्ग (ः) पाहतो (उदा. रामः, देवः, पुनः), त्यांचा जन्म याच सूत्रातून होतो. ‘ससजुषो रुः‘ या सूत्राने ‘स्‘ चा जो ‘र्‘ तयार झालेला असतो, त्या ‘र्‘ चे ‘विसर्गात‘ (ः) रूपांतर करण्याचे काम हे सूत्र करते. खरवसानयोर्विसर्जनीयः । संपूर्ण सूत्र व मुख्य नियम. नियम: पदाच्या शेवटी असलेल्या ‘र्‘ (रु) च्या पुढे जर ‘खर्‘ प्रत्याहारातील वर्ण (कठोर व्यंजने) आले, किंवा पुढे काहीही नसून ‘अवसान‘ (विराम/वाक्याचा शेवट) असेल, तर त्या ‘र्‘ च्या जागी विसर्ग (ः) तयार होतो. खर् (खरि): कठोर व्यंजन पुढे असताना. विश्लेषण: ‘खर्‘ प्रत्याहारात सर्व कठोर व्यंजने येतात. (म्हणजेच प्रत्येक वर्गातील पहिले आणि दुसरे अक्षर: क, ख, च, छ, ट, ठ, त, थ, प, फ आणि श, ष, स). ‘र्‘ च्या पुढे यापैकी कोणताही वर्ण आल्यास ‘र्‘ चा विसर्ग होतो. पुनः पुनः (पुनर् + पुनः) उदा. भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ पुनः पुनः । (९.८). येथे ‘पुनर्‘ च्या पुढे ‘प‘ हे कठोर व्यंजन (खर्) आल्याने ‘र्‘ चा विसर्ग ‘ः‘ झाला. अवसान (अवसाने) : वाक्याच्या शेवटी / पुढे काहीही नसताना. विश्लेषण: ‘अवसान‘ म्हणजे विराम किंवा शेवट. जेव्हा एखादा शब्द वाक्याच्या शेवटी येतो आणि त्याच्या पुढे जोडण्यासाठी कोणताही वर्ण नसतो, तेव्हा त्याच्या शेवटी असलेल्या ‘र्‘ चा अनिवार्यपणे ‘विसर्ग‘ (ः) होतो. बहुतांश श्लोकांच्या शेवटी हेच सूत्र लागते. युयुत्सवः । (युयुत्सवस् à युयुत्सवर् à युयुत्सवः. उदा. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । (१.१) येथे श्लोक/वाक्य संपत असल्याने पुढे ‘अवसान‘ (विराम) आहे, त्यामुळे ‘र्‘ चा विसर्ग झाला. विसर्जनीयः विसर्गाची निर्मिती प्रक्रिया. विश्लेषण: संस्कृतमध्ये कोणताही मूळ शब्द विसर्गाने संपत नाही. सर्वसाधारण साखळी अशी असते: मूळ नाम + प्रथमा विभक्तीचा ‘स्‘ प्रत्यय –> ‘ससजुषो रुः‘ ने ‘स्‘ चा ‘र्‘ -> आणि मग या सूत्राने त्या ‘र्‘ चा ‘विसर्ग‘ (ः). हे सूत्र विसर्गाचा जन्मदाता आहे. कपिध्वजः । (कपिध्वजर् + अवसान). उदा. …पाण्डवः कपिध्वजः । (१.२०). दुःकृतम् (दुर् + कृतम्). उदा. …नेहानभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । (‘दुः‘ चा प्रयोग गीतेत अनेक ठिकाणी येतो, जेथे दुर् पुढे ‘ख/क‘ कठोर व्यंजन येते). |
{२४} र्वोरुपधाया दीर्घ इकः । (८.२.७६) = पदस्य र्वोः धातोः उपधायाः इकः दीर्घः । रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक्-वर्णस्य दीर्घादेशः भवति । यस्य अन्ते रेफः वकारः वा अस्ति, यस्य च धातुसंज्ञा अपि अस्ति, तादृशस्य पदस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य दीर्घादेशः भवति । ज्ञातव्यम् – अस्मिन् सूत्रे यद्यपि ‘वकार‘ग्रहणम् कृतमस्ति, तर्हि वकारान्त-धातुसंज्ञकस्य-पदस्य विषये (यथा – दिव्, सुदिव्) अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः अस्मिन् सूत्रे वस्तुतः वकारग्रहणम् न आवश्यकम् । परन्तु अग्रिमसूत्रे तस्य प्रयोजनं विद्यते अतः अत्र तस्य ग्रहणं कृतमस्ति । The उपधा letter of a रेफान्त or a वकारान्त पद which also has a धातुसंज्ञा becomes दीर्घ if that letter belongs to the इक् प्रत्याहार. पाणिनीय अष्टाध्यायीतील ‘र्वोरुपधाया दीर्घ इकः‘ (८.२.७६) हे सूत्र प्रामुख्याने पदाच्या शेवटी येणाऱ्या शब्दांतील स्वरांचे दीर्घीकरण करते. जेव्हा या सूत्रामुळे तयार झालेल्या शब्दाचा अंतिम ‘र्‘ विसर्गात (ः) बदलतो, तेव्हा या प्रक्रियेला विसर्ग संधीच्या अनुषंगाने अभ्यासले जाते. र्वोरुपधाया दीर्घ इकः । (८.२.७६) मुख्य पदच्छेद आणि अर्थ. पदच्छेद: र्वोः (‘र्‘ आणि ‘व्‘ चे), उपधायाः (उपान्त्य वर्णाचे), दीर्घः (दीर्घ होतो), इकः (‘इक्‘ प्रत्याहारातील इ, उ, ऋ, ऌ स्वरांचे). विश्लेषण: जर एखाद्या ‘धातूच्या‘ (Root) शेवटी ‘र्‘ किंवा ‘व्‘ असेल आणि त्याच्या अगदी आधी (उपान्त्य स्थानी) ‘इ, उ, ऋ किंवा ऌ‘ यापैकी कोणताही ऱ्हस्व स्वर असेल, तर तो शब्द पदान्ती (शेवटी) आल्यास त्या ऱ्हस्व स्वराचा दीर्घ (ई, ऊ, ॠ, ॄ) होतो. पुढे याच पदान्ती असलेल्या ‘र्‘ चे विसर्गात (ः) रूपांतर होते. ‘गिर्‘ (वाणी / शब्द): या नियमाने ‘गिर्‘ धातूच्या उपान्त्य ‘इ‘ चा दीर्घ ‘ई‘ होऊन ‘गीर्‘ व पदान्ती विसर्ग होऊन ‘गीः‘ असा शब्द तयार होतो. गीतेतील संदर्भ: गीतेत ‘गिर्‘ शब्दाचे अनेकवचनी रूप श्लोक १०.३४ मध्ये आले आहे: “गिरामस्म्येकमक्षरम्” = येथे मूळ धातू ‘गिर्‘ असून याच व्याकरण प्रक्रियेचा तो मुख्य आधार आहे. र्वोरुपधाया दीर्घ इकः । = उकाराचे दीर्घीकरण. विश्लेषण: या सूत्राचे दुसरे सर्वात मोठे उदाहरण म्हणजे उपान्त्य ‘उ‘ या ऱ्हस्व स्वराचे ‘ऊ‘ या दीर्घ स्वरात रूपांतर होणे. जेव्हा ‘पुर्‘ (नगर) किंवा ‘धुर्‘ (ओझे) सारखे ‘र्‘ अन्त असणारे धातू येतात, तेव्हा सूत्राप्रमाणे ‘उ‘ चा दीर्घ ‘ऊ‘ होतो आणि ‘र्‘ चा विसर्ग बनून ‘पुर् à पूर् à पूः‘ असे रूप सिद्ध होते. ‘पुर्‘ (नगर / देहरूपी नगर): या नियमाने ‘पुर्‘ शब्दाचे प्रथमा एकवचन ‘पूः‘ बनते. गीतेतील संदर्भ: गीतेत देहासाठी ‘पुर्‘ शब्दाचा अतिशय सुंदर वापर ५.१३ मध्ये आला आहे: “नवद्वारे पुरे देही नैव कुर्वन्न कारयन्” – इथे ‘पुरे‘ हे सप्तमीचे रूप असले तरी मूळ प्रातिपदिक ‘पुर्‘ याच नियमाच्या कक्षेत येते. र्वोरुपधाया दीर्घ इकः । – संधीतील तत्त्व व उपयोजन. विश्लेषण: व्याकरणातील ‘रुत्व-विसर्ग‘ प्रक्रियेत हा नियम ‘इक्‘ स्वराला दीर्घ करण्यासाठी पायाभूत ठरतो. जेव्हा ‘आशिस्‘ सारख्या शब्दांत संधी प्रक्रियेत ‘स्‘ चा ‘र्‘ होतो, तेव्हा याच उपान्त्य दीर्घीकरणाच्या तत्त्वानुसार ‘इ‘ चा ‘ई‘ होऊन विसर्ग लागतो आणि ‘आशीः‘ हा पदान्त शब्द सिद्ध होतो. निराशीः कोणतीही अपेक्षा नसलेला : श्लोक ३.३०: “निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥” संदर्भ: येथे ‘निर् + आशीः‘ असा मूळ शब्द आहे. ‘आशीः‘ मध्ये ‘इ‘ चा दीर्घ ‘ई‘ स्पष्ट दिसतो व पदान्ती विसर्ग आहे. संधीमुळे त्या विसर्गाचा पुन्हा ‘र्‘ (निराशीर्निर्ममो) बनला आहे. हे या नियमाच्या उपयोजनाचे उत्तम उदाहरण आहे. अट व अपवाद: सूत्रातील ‘धातोः‘ ची अनुवृत्ती. विश्लेषण: या सूत्रात महर्षी पाणिनींची ‘धातोः‘ ही अदृश्य अट (अनुवृत्ती) आहे. म्हणजेच हा नियम फक्त धातूंनाच लागू पडतो. जर एखादा शब्द नाम, विशेषण किंवा संख्यावाचक असेल आणि त्याच्या शेवटी ‘र्‘ व उपान्त्य स्थानी ‘उ/इ‘ असेल, तरीही त्याचा दीर्घ होत नाही. तिथे ऱ्हस्व स्वरच राहतो. ‘चतुर्‘ (चार): हा संख्यावाचक शब्द आहे (धातू नाही). त्यामुळे ‘चतुर्‘ चे दीर्घीकरण होऊन ‘चतूः‘ होत नाही, तर ते ‘चतुः‘ (ऱ्हस्व उकार) च राहते. गीतेतील संदर्भ: श्लोक ७.१६: “चतुर्विधा भजन्ते मां…” किंवा श्लोक ४.१३: “चातुर्वर्ण्यं मया सृष्टं…”. इथे ऱ्हस्व ‘उ‘ कायम राहतो, हे या सूत्राचे आणि अष्टाध्यायीचे अचूकत्व दर्शवते. थोडक्यात सारांश: हे सूत्र प्रामुख्याने इ/उ + र्/व् यांची जोडी पदान्ती आल्यास पहिल्या स्वराला ‘दीर्घ‘ करण्याचे काम करते. विसर्ग संधीत ज्या शब्दांच्या शेवटी विसर्गाच्या आधी ‘ई‘ किंवा ‘ऊ‘ ऐकू येतो (उदा. गीः, पूः, आशीः), त्यांच्या निर्मितीमागे हेच मुख्य सूत्र कार्य करत असते. |
{२२} इदुदुपधस्य चाप्रत्ययस्य । (८.३.४१) = इदुदुपधस्य अप्रत्ययस्य विसर्जनीयस्य कुप्वोः षः । इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति । ह्रस्व-इकारात् / ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति – इति अस्य सूत्रस्य आशयः । सामान्यरूपेण ह्रस्व-इकारात् ह्रस्व-उकारात् परः यः विसर्गः दृश्यते, सः प्रत्ययस्यैव वर्तते । यथा – मुनिः (सुँ-प्रत्ययस्य विसर्गः), मतिभिः (भिस्-प्रत्ययस्य विसर्गः), सर्पिः (‘इस्‘ इति उणादिप्रत्ययस्य विसर्गः), धनुः (उस्-इति उणादिप्रत्ययस्य विसर्गः), आदयः । केषुचन एव शब्देषु प्रत्ययभिन्नः विसर्गः दृश्यते । काशिकायाम् एतेषाम् शब्दानामावली दत्ता अस्ति – निस्-निर्-दुस्-दुर्-बहिस्-आविस् -चतुर्-प्रादुस् । एतेषामन्तिमवर्णस्य यदि विसर्गादेशः भवति, तर्हि तस्य वर्तमानसूत्रेण षकारादेशः विधीयते । अनेन प्रकारेण एतेषाम् सर्वेषाम् खर्-वर्णे परे विसर्गः जायते । अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति । उदाहरणानि एतानि – १. निस् + कृतम् = निष्कृतम्, २. दुस् + पातकम् = दुष्पातकम् । ३. बहिस् + कृतम् = बहिष्कृतम् । ४. आविस् + पतितम् = आविष्पतितम् । ५. प्रादुस् + पीतम् = प्रादुष्पीतम् ६. निर् + पीतम् = निष्पीतम् । ७. दुर् + कृत्यम् = दुष्कृत्यम् । ८. चतुर् + कपालम् = चतुष्कपालम् । A विसर्ग present after an इकार or an उकार which is not made from a प्रत्यय is converted to ष in presence of a कवर्ग or a पवर्ग. या सूत्रात विसर्गाच्या (ः) आधी जर ‘इ‘ किंवा ‘उ‘ स्वर आला असेल, तर पुढे काही विशिष्ट व्यंजने आल्यावर विसर्गाचा ‘ष्‘ (षट्कोनाचा ष) कसा होतो, याचा नियम सांगितला आहे. इदुदुपधस्य चाप्रत्ययस्य । (८.३.४१) (मुख्य नियम). पदच्छेद: इत्-उत्-उपधस्य (ज्याच्या उपान्त्य स्थानी ‘इ‘ किंवा ‘उ‘ आहे असा विसर्ग), च (आणि), अप्रत्ययस्य (जो विसर्ग ‘प्रत्ययाचा‘ नाही). विश्लेषण: जर विसर्गाच्या अगदी आधी ‘इ‘ किंवा ‘उ‘ हा स्वर असेल आणि तो विसर्ग मूळ शब्दाचा भाग असेल (कोणत्याही प्रत्ययाचा नसेल), तर त्या विसर्गाच्या पुढे क्, ख्, प्, फ् यापैकी कोणतेही व्यंजन आल्यास, त्या विसर्गाचा ‘ष्‘ होतो. ‘उ‘ उपधा असणारी उदाहरणे – दुः + क / प = दुष्. विश्लेषण: या सूत्राचे सर्वात जास्त आढळणारे उदाहरण म्हणजे ‘दुः‘ (वाईट/कठीण) हा उपसर्ग. ‘दुः‘ मध्ये विसर्गाच्या आधी ‘उ‘ हा स्वर आहे. त्यामुळे जेव्हा याच्या पुढे ‘कृ‘ (करणे) किंवा ‘पूर‘ असे शब्द येतात, तेव्हा विसर्गाचा ‘ष्‘ होऊन ‘दुष्कृत‘ किंवा ‘दुष्पूर‘ असे शब्द तयार होतात. दुष्कृत (दुः + कृत): श्लोक ४.८: “विनाशाय च दुष्कृताम्” (दुष्टांचा विनाश करण्यासाठी). इथे विसर्गाचा ‘ष्‘ झाला आहे. दुष्पूर (दुः + पूर): श्लोक ३.३९: “कामरुपेण कौन्तेय दुष्पूरेणानलेन च” (कधीही तृप्त न होणाऱ्या अग्नीसारख्या कामवासनेने). इथे ‘दुः + पूर‘ मिळून दुष्पूर शब्द बनला आहे. ‘इ‘ उपधा असणारी उदाहरणे – निः + क / प = निष्. विश्लेषण: या सूत्राचा दुसरा महत्त्वाचा भाग म्हणजे ‘निः‘ (नसलेला/अभाव) हा उपसर्ग. ‘निः‘ मध्ये विसर्गाच्या आधी ‘इ‘ हा स्वर आहे. यापुढे ‘क‘ किंवा ‘प‘ आल्यास विसर्गाचा ‘ष्‘ होतो. उदा. निः + काम = निष्काम, निः + पाप = निष्पाप, निः + कर्म = निष्कर्म. नैष्कर्म्य (निः + कर्म): श्लोक ३.४: “न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते” संदर्भ: मूळ शब्द ‘निः + कर्म‘ असा आहे. या सूत्राने तो ‘निष्कर्म‘ बनतो आणि त्याचे भाववाचक नाम ‘नैष्कर्म्य‘ (कोणतेही कर्म न करण्याची स्थिती) असे गीतेत वापरले आहे. चाप्रत्ययस्य (अप्रत्ययस्य) = सूत्रातील अपवाद/अट. विश्लेषण: महर्षी पाणिनींनी या सूत्रात ‘अप्रत्ययस्य‘ ही अट घातली आहे. याचा अर्थ हा नियम फक्त प्रातिपदिकांना (मूळ शब्दांना) आणि उपसर्गांनाच (निः, दुः, आविः) लागू होतो. जर विसर्ग हा एखाद्या नामाच्या विभक्ती प्रत्ययाचा (उदा. भानोः, हरेः) भाग असेल, तर पुढे ‘क‘ किंवा ‘प‘ आला तरी विसर्गाचा ‘ष्‘ होत नाही; तो विसर्ग तसाच राहतो. हरेः (श्रीहरीचे): जर ‘हरेः + कृपया‘ (श्रीहरीच्या कृपेने) असा शब्द आला, तर तिथे ‘हरेष्कृपया‘ होत नाही, कारण ‘हरेः‘ मधील विसर्ग हा षष्ठी विभक्तीच्या प्रत्ययाचा भाग आहे. पाणिनींची ही अचूकता संस्कृत भाषेतील शब्दांचे मूळ स्वरूप टिकवून ठेवते. थोडक्यात सारांश: हे सूत्र स्पष्ट करते की निः, दुः, आविः, चतुः यांसारख्या (ज्यांच्या शेवटी अनुक्रमे ‘इः‘ आणि ‘उः‘ आहे) शब्दांच्या पुढे जेव्हा क, ख, प, फ येतात, तेव्हा विसर्गाचा बदल होऊन तो ‘ष्‘ बनतो. गीतेत वापरले गेलेले दुष्कृत, दुष्पूर, निष्काम, नैष्कर्म्य हे सर्व शब्द याच पाणिनीय नियमाचे पालन करून तयार झालेले आहेत. |
{२३} रोऽसुपि । (८.२.६९) = पदस्य अह्नः असुपि रः । अहन्-इत्यस्य नकारस्य पदान्ते रेफादेशः भवति, परन्तु सुप्-प्रत्यये परे न भवति । अहन् (= दिवसः) इति नकारान्त-नपुंसकलिङ्गशब्दस्य यत्र पदसंज्ञा विधीयते, तत्र अस्य शब्दस्य अन्ते विद्यमानस्य नकारस्य प्रकृतसूत्रेण र् इति आदेशः विधीयते । परन्तु, यत्र अहन्-शब्दात् अनन्तरम् सुप्-प्रत्ययः विद्यते, तत्र अयम् रेफादेशः नैव प्रवर्तते, अतः तत्र अहन् ८.२.६८ इत्यनेन नकारस्य रुँत्वं भवति — इति अस्य सूत्रस्य आशयः । यद्यपि अस्मिन् सूत्रे असुपि इति उक्तम् अस्ति, तथापि अस्य सूत्रस्य प्रयोगः सुप्-प्रत्ययस्य लुकि कृते एव कृतः दृश्यते । The word अहन् gets रेफादेश at पदान्त, except when followed by a सुप्-प्रत्यय. हे सूत्र प्रामुख्याने ‘अहन्‘ (दिवस) या एकाच शब्दासाठी नियम सांगते. रोऽसुपि । (८.२.६९) – मुख्य नियम व पदच्छेद. पदच्छेद: रः (र् आदेश होतो), असुपि (सुप् प्रत्यय पुढे नसताना). अनुवृत्ती: या सूत्रात मागील सूत्रातून ‘अहन्‘ (दिवस) या शब्दाची अनुवृत्ती येते. विश्लेषण: जर ‘अहन्‘ (दिवस) हा शब्द पदान्ती (शब्दाच्या शेवटी) असेल आणि त्याच्या पुढे कोणताही ‘सुप्‘ (नामाला लागणारा विभक्तीचा) प्रत्यय नसेल, तर त्या ‘अहन्‘ मधील शेवटच्या ‘न्‘ च्या जागी थेट ‘र्‘ (रेफ) असा आदेश होतो. येथे सामान्य नियमाप्रमाणे ‘रु‘ किंवा विसर्ग न होता ‘र्‘ होतो. अहन् + स्वर = अहर् – स्वर पुढे असताना संधी. विश्लेषण: जेव्हा ‘अहन्‘ शब्दाच्या पुढे एखादा स्वर येतो (जो विभक्ती प्रत्यय नाही), तेव्हा ‘रोऽसुपि‘ या सूत्रानुसार ‘अहन्‘ च्या ‘न्‘ चा ‘र्‘ होतो. हा ‘र्‘ (रेफ) हलन्त असल्यामुळे तो पुढील स्वरामध्ये मिसळून जातो आणि शब्द पूर्ण होतो. अहरागमे (अहन् + आगमे): श्लोक ८.१८: “अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।” संदर्भ: ‘अहन्‘ (दिवस) आणि ‘आगमे‘ (सुरु झाल्यावर / उजाडल्यावर). इथे ‘आगमे‘ हा सुप् प्रत्यय नसून एक स्वतंत्र शब्द आहे. म्हणून ‘रोऽसुपि‘ नियमाने ‘अहन्‘ चा ‘अहर्‘ झाला आणि (अहर् + आगमे = अहरागमे) हा संधीयुक्त शब्द तयार झाला. (श्लोक ८.१९ मध्येही हाच शब्द आला आहे). अहन् + मृदु व्यंजन = अहर् – व्यंजन पुढे असताना संधी. विश्लेषण: जेव्हा ‘अहन्‘ च्या पुढे एखादे मृदु व्यंजन (जसे य, र, ल, व, ग, ज, द इ.) येते, तेव्हाही या नियमानुसार ‘न्‘ चा ‘र्‘ च होतो. हा ‘र्‘ पुढील व्यंजनावर ‘रफार‘ (र्) म्हणून आरूढ होतो. अहर्यद् (अहन् + यत्): श्लोक ८.१७: “सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।” संदर्भ: इथे मूळ शब्द ‘अहन्‘ + ‘यत्‘ असे आहेत. पुढे ‘य‘ हे व्यंजन आल्यामुळे सूत्राप्रमाणे ‘अहन्‘ च्या जागी ‘अहर्‘ झाला आणि त्याचा रफार होऊन ‘अहर्यत्‘ (ब्रह्मदेवाचा जो एक ‘दिवस‘ आहे…) असा शब्द सिद्ध झाला. ‘असुपि‘ – अटीचे महत्त्व. सूत्रातील अपवाद. विश्लेषण: महर्षी पाणिनींनी सूत्रात मुद्दाम ‘असुपि‘ (सुप् प्रत्यय नसताना) ही अट घातली आहे. याचा अर्थ, जर ‘अहन्‘ शब्दापुढे भ्याम्, भिस् यांसारखे सुप् (विभक्ती) प्रत्यय आले, तर तिथे ‘र्‘ होत नाही; तिथे सामान्य नियमाने ‘रु‘ होऊन त्याचा ‘ओ‘ होतो (उदा. अहन् + भ्याम् = अहोभ्याम्). अहोरात्रविदो (अहन् + रात्र): श्लोक ८.१७: “…तेऽहोरात्रविदो जनाः ॥” संदर्भ: या शब्दात ‘रोऽसुपि‘ नियम लागू होत नाही. ‘रात्र‘ शब्दासाठी एका वेगळ्या वार्तिकानुसार (रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्) ‘अहन्‘ च्या ‘न्‘ चा ‘रु‘ होऊन ‘अहोरात्र‘ शब्द बनतो. ‘अहर्‘ आणि ‘अहो‘ यांमधील व्याकरणिक भेद पाणिनींच्या या अटीमुळे स्पष्ट होतो. थोडक्यात सारांश: ‘रोऽसुपि‘ हे सूत्र केवळ ‘अहन्‘ (दिवस) या शब्दासाठी बनले आहे. जेव्हा ‘अहन्‘ शब्दापुढे एखादा विभक्तीचा प्रत्यय वगळता इतर कोणताही शब्द (स्वर किंवा व्यंजन) येतो, तेव्हा ‘अहन्‘ चे रूप ‘अहर्‘ असे बदलते. गीतेतील अहरागमे आणि अहर्यद् हे शब्द या नियमाची अत्यंत उत्तम आणि प्रामाणिक उदाहरणे आहेत. |